संस्कृत-शब्दकोशः

विप्रलम्भ विप्रलोभिन्

विप्रलाप

वाचस्पत्यम्

विप्रलाप ||‍ पु० वि + प्र + लप—घञ् । १ विरोधोक्तौ परस्परविरु- द्धार्थककने अमरः । २ अनर्थकवाक्ये हेमच० ।


शब्दकल्पद्रुमः

विप्रलापः || पुं, (वि + प्र + लप + घञ् ।)
विरो- धोक्तिः । इत्यमरः ॥ परवचनविरोधिवचनं विप्रलापः । अन्योन्यविवदनमिति यावत् । यथा एको ब्रूते आगता कल्याणीति अन्यो ब्रूते नहीति । तथाभ्युदाजहार सर्व्वानन्दः । “एकः स्रवन्मधुसरोजमवैति वक्त्र- मन्यः सुधाकिरणबिम्बमदो मृगाक्ष्याः । यूनोर्म्मुहुर्व्विवदतोर्व्वदने बभूवुः सिद्धान्तवन्मधुशराजिगतागतानि ॥” विरुद्धः प्रलापो विप्रलापः घञ् । विरोधे उक्तिर्वचनं विरोधोक्तिः । इति भरतः ॥ (यथा, महाभारते । ६ । ८२ । २५ । “स धर्म्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापापविद्धम् ॥”)
अनर्थकवाक्यम् । इति हेमचन्द्रः ॥ (यथा, महाभारते । ३ । ५ । २१ । “सत्यं श्रेयः पाण्डव विप्रलापं तुल्यञ्चान्नं सह भोज्यं सहायैः ॥”)



Correction: