वाचस्पत्यम्
विभाव || पु० वि + भू—घञ् । १ परिचये कलङ्कारोक्ते रस- स्योद्दीपके २ आलम्बनादौ “रत्याद्युद्बोधकालोके विभावाः काव्यनाट्ययोः । आलम्बनोद्दीपनाख्यौ तस्य भेदाविमौ स्मृताः” । ये हि लोके रामादिगतरति- हासादीनामुद्बोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः विभाव्यन्ते आस्वादा- ङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिमावा एभिरिति विमावा उच्यन्ते” सा० द० ३ प० । “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा” सा० ३ प० ।
शब्दकल्पद्रुमः
विभावः || पुं, (विशेषेण भावयति रसं सामाजि- कानिति । वि + भावि + अच् ।)
परिचयः । रसस्योद्दीपनादिः । इति मेदिनी ॥ तल्लक्ष- णादिर्यथा, —
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥” विभावादयो वक्ष्यन्ते । विभावादीनां यथा- संख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते । “कारणकार्य्यसञ्चारिरूपा अपि हि लोकतः । रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ॥ सद्भावाश्च विभावादेर्द्बयोरेकस्य वा भवेत् । झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ॥ विभावादिपरामर्शविषयत्वात् सचेतसाम् । परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ॥” * ॥
“अथ के ते विभावानुभावव्यभिचारिण इत्य- पेक्षायां विभावमाह । रत्याद्युद्बोधका लोके विभावाः काव्य- नाट्ययोः । ये हि लोके रामादिगतरतिहासादीनां उद्- बोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तो विभाव्यन्ते आस्वादाङ्कुरप्रादु- र्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिरिति विभावा उच्यन्ते । आलम्बनोद्दीपनाख्यौ तस्य भेदापुभौ स्मृतौ ॥” इति साहित्यदर्पणे ३ परिच्छेदे । (विविधप्रकारेण प्रकाशवति, त्रि । यथा, ऋग्वेदे । १ । १४८ । १ । “न चित्रं वपुषे विभावम् ।” “विभावं विविधप्रकाशवन्तम् ।” इति तद्भाष्ये सायणः ॥)