विभावसु
विभाषा
विभावित
शब्दकल्पद्रुमः
विभावितः || त्रि विचिन्तितः । विशेषेण उत्पा- दितः । विशेषेण प्रापितः । विमिश्रयितः । इति ञ्यन्तभूधातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, शिशुपालवधे । १ । २ । “चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिः ॥”)