वाचस्पत्यम्
विभाषा || स्त्री विरुद्धा भाषा वि + भाष्—अ वा । व्याकरणोक्ते पाक्षिकप्राप्तिफलके “नषेति विभाषा” इत्युक्तलक्षणे विकल्पविधाने ।
शब्दकल्पद्रुमः
विभाषा || स्त्री (विकल्पत्वेन भाष्यते इति । भाष् + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः । ततष्टाप् ।)
विकल्पः । यथा । द्वयोर्विभाषयो- र्म्मध्ये विधिर्नित्यः । इति मुग्धबोधव्याकरणम् ॥ (“नवेति विभाषा ॥” इति पाणिनिः । १ । १ । ४४ ॥)