वाचस्पत्यम्
विभीषण || पु० विशेषेण भीषयते शत्रून् भी—णिच्—सुक् च ल्यु । १ रावणभ्रातरि राक्षसे रामा० । २ नलतृणे राजनि० । ३ भयकारके त्रि० ।
शब्दकल्पद्रुमः
विभीषणः || पुं, (विभीषयतीति । वि + भीषि + “नन्दिग्रहिपचीति ।” ३ । १ । १३४ । इति ल्युः ।)
रावणभ्राता । इति रामायणम् ॥ (यथा, भागवते । ४ । १ । ३४ । “रावणः कुम्भकर्णश्च तथाप्यस्यां विभीषणः । पुलहस्य गतिर्भार्य्या त्रीनसूत सती सुतान् ॥”)
नलतृणम् । इति राजनिर्घण्टः ॥ भयानके त्रि ॥ (यथा, ऋग्वेदे । ५ । ३४ । ६ । “इन्द्रो विश्वस्य दमिता विभीषणः ॥” “विभीषणः भयजनकः ।” इति तद्भाष्ये सायणः ॥)