संस्कृत-शब्दकोशः

विमातृज विमार्ग

विमान

वाचस्पत्यम्

विमान ||‍ पुंन० वि + मन—घञ् वि + मा—ल्युट् वा । १ देवयाने रथे अमरः । २ सार्वभौमगृहभेदे च ३ यानमात्रे ४ अश्वे पु० मेदि० ५ परिमाणे च न० ।


शब्दकल्पद्रुमः

विमानः || पुं क्ली, (विगतं मानमुपमा यस्य ।)
देवरथः । तत्पर्य्यायः । व्योमयानम् २ । इत्य- मरः ॥ (यथा, कुमारसम्भवे । २ । ४५ । “भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते । खिलीभूते विमानानां तदापातभयात् पथि ॥”)
सार्व्वभौमगृहम् । (तत्तु सप्तभूमिगृहम् । यथा, रामायणे । १ । ५ । १६ । “सर्व्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥” “विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि ॥” इति तट्टीकाधृतनिघण्टुः ॥)
घोटकः । यानमात्रम् । इति मेदिनी । ने, १३२ ॥ (त्रि, परिच्छेदकम् । यथा, ऋग्वेदे । २ । ४० । ३ । “सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ॥” “विमानं परिच्छेदकं सर्व्वमानमित्यर्थः ।” इति तद्भाष्ये सायणः ॥ साधनम् । यथा, तत्रैव । ३ । ३ । ४ । “पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनञ्च वाघताम् ॥”)
“विमानं विमीयतेऽनेन फलमिति विमानं यज्ञादिकर्म्मसाधनम् ।” इति तद्भाष्ये सायणः ॥ विगतो मानो यस्येति विग्रहे । अवज्ञातः । यथा, भागवते । ५ । १३ । १० । “कर्हिस्मचित् क्षुद्ररसान् विचिन्वं- स्तन्मक्षिकाभिर्व्यथितो विमानः । तत्राति कृच्छ्रं प्रति लब्धमानो बलाद्विलुम्पन्त्यथ तांस्ततोऽन्ये ॥”)



Correction: