संस्कृत-शब्दकोशः

विरत विरल

विरति

वाचस्पत्यम्

विरति ||‍ स्त्री वि + रम—क्तिन् । १ निवृत्तौ २ विषयसेवासु व्यापाराभावे च अमरः ।


शब्दकल्पद्रुमः

विरतिः || स्त्री (वि + रम + क्तिन् ।)
निवृत्तिः । तत्पर्य्यायः । आरतिः २ अवरतिः ३ उप- रामः ४ । इत्यमरः ॥ उपरमः ५ विरामः ६ । इति भरतः ॥ (यथा, कथासरित्सागरे । १०१ । ६ । “कृच्छ्राच्च दुःखदीर्घायां गतायां विरतिं निशि ॥”)



Correction: