संस्कृत-शब्दकोशः

विरलद्रवा विरहिणी

विरह

वाचस्पत्यम्

विरह ||‍ पु० वि + चु० रह—अच् । १ विच्छेदे २ अभावे शृङ्गार- रसस्य विप्रलम्भाख्ये ३ अवस्थाभेदे च हेमच० ।


शब्दकल्पद्रुमः

विरहः || पुं, (वि + रह त्यागे + घः ।)
विच्छेदः । तत्पर्य्यायः । विप्रलम्भः २ विप्रयोगः ३ वियोगः ४ । इति हेमचन्द्रः ॥ * ॥
(यथा, साहित्यदर्पणे । १० । “सङ्गमविरहविकल्पे वरमिह विरहो न सङ्गम- स्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥” भर्त्तृविरहस्तु स्त्रीणां दोषाय भवति । यथा, मनौ । ९ । १३ । “पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नोऽन्यगेहे वासश्च नारीणां दूषणानि षट् ॥”)
विरहे वर्णनीयानि यथा । तापः । निश्वासः । चिन्ता । मौनम् । कृशाङ्गता । वत्सरतुल्य- रात्रिदैर्घ्यम् । जागरणम् । शीतले उष्णता- ज्ञानम् । इति कविकल्पलता ॥



Correction: