शब्दकल्पद्रुमः
विरहिणी || स्त्री (विरहोऽस्या अस्तीति । विरह + इनि + स्त्रियां ङीप् ।)
विच्छेदविशिष्टा नारी । यथा, —
“रतिः पुंसो विरहिणी शिवः स्त्रीविरही चिरम् । द्वयोर्द्वयोश्च संप्राप्तौ किं बभूव द्बयोः सुखम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४६ अध्यायः ॥ भृतिः । इति शब्दमाला ॥