संस्कृत-शब्दकोशः

विरहिणी विरहिन्

विरहित

वाचस्पत्यम्

विरहित ||‍ त्रि० वि + रह—क्त । १ त्यक्ते २ हीने च ।


शब्दकल्पद्रुमः

विरहितः || त्रि (वि + रह + क्तः ।)
त्यक्तः । विहीनः । यथा, —
“अभिभूतञ्चावमतं त्यक्तस्तु स्यात् सभुज्झितम् । हीनं विरहितं धूतमुत्सृष्टविधुते अपि ॥” इति जटाधरः ॥ (यथा, साहित्यदर्पणे । १० । “इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ॥ इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥”)



Correction: