संस्कृत-शब्दकोशः

विरहित विरहोत्पण्ठिता

विरहिन्

वाचस्पत्यम्

विरहिन् ||‍ त्रि० वि + रह णिनि । १ विरहयुते स्त्रियां ङीप् । सा च २ भृतौ शब्दमा० ।


शब्दकल्पद्रुमः

विरही || [न्] पुं, (विरहोऽस्यास्तीति । इनिः ।)
विरहविशिष्टः । वियोगी । यथा, —
“विहरति हरिरिह सरसवसन्ते । नृत्यति युवतित्रनेन समं सखि विरहिजनस्य दुरन्ते ॥” इति जयदेवः ॥



Correction: