संस्कृत-शब्दकोशः

विरुदावली विरुद्धमतिकृत्

विरुद्ध

वाचस्पत्यम्

विरुद्ध ||‍ त्रि० वि + रुध—क्त । विरोधयुक्ते २ हेत्वाभासभेदे “अनैकान्तो विरुद्धश्चेत्याद्रिना विभज्य “यः साध्यवति नै- यास्ति स विरुद्ध उदाहृतः” भाषा० लक्षितः । “एवकारेण साध्यवत्त्वावच्छेदेन हेत्वभाव इति सूचितम् तथा च साध्यव्यापकाभावप्रतियागित्वं तदर्थः सि० मुक्ता०” गातम १ ४७ सू० अन्यथा लाक्षता यथा “सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः” “तं (सिद्धान्तं) विरुणद्धीति तद्वि- रोधी अभ्युपगतं सिद्धान्तं व्याहन्तीति । यथा सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् अपेतोऽप्यस्ति विनाशप्रतिषेधात् न नित्यो विकार उपपद्यते इत्येव हेतुव्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते । कथं? व्यक्तिरात्मलाभः अपायः प्रच्युतिः यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति नित्यत्वप्रतिषेधी नीपपद्यते यत् व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विका- रस्यात्मलाभप्रच्युतेरुपपत्तिः । यद् आत्मलाभात् प्रच्यवते तदनित्यं दृष्टं यदस्ति न तदात्मलाभात् प्रच्य- वते । अस्तित्वं चात्मलाभात् प्रच्युतिरिति तद्विरद्धा वेतौ न सह सम्भवतः । स चाय हेतुर्यत्सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति” वा० भा० । वृत्तौ त्विदमन्यथा व्याख्यातं यथा “क्रमप्राप्तं विरुद्धं लक्षयति सिद्धान्तमिति अत्र च सिद्धान्तं साध्यं प्रति- ज्ञायां हि सिद्धस्य पक्षस्यान्ते साध्यमभिधीयते तथा च साध्यमभ्युपेत्य उद्दिश्य प्रयुक्तस्तद्विरोधी साध्याभाव- व्याप्त इति फलितार्थः । यथा वह्निमान् ह्रदत्वादिति । एतस्य साध्याभावानुमितिसामग्रीत्वेन साध्यानुमिति प्रतिबन्धो दूषकतावीजम् । न च सत्प्रतिपक्षाविशेषः तत्र हेत्वन्तरं साध्याभावसाधकम् । इह तु हेतुरेव साध्याभावसाधकः साध्यसाधकत्वेन त्वयोपन्यस्त इत्य- शक्तिविशेषोन्नायकत्वेन विशेषात्” । इदञ्च नासङ्कीर्ण- विरुद्धोदाहरणम् व्यमिचारादेः सत्त्वात् । किन्तु उपाधेय- सङ्कुरेऽप्युपाधेरसङ्करादित्युक्तेरस्य दूषकतावीजसत्त्वा- च्चोदाहरणत्वं वोध्यम् ।


शब्दकल्पद्रुमः

विरुद्धः || त्रि (वि + रुध + क्तः ।)
विरोधविशिष्टः । यथा । विरुद्धधर्म्मसमवाये भूयसां स्यात् सधर्म्मकत्वम् । इति जैमिनीसूत्रम् ॥ “विरुद्धं गुरुवाक्यस्य यदत्र भाषितं मया । तत् क्षन्तव्यं बुधैरेव स्मृतितत्त्वबुभुत्सया ॥ स्मृतितत्त्वे प्रमादाद्यद्विरुद्धं बहुभाषितम् । गुणलेशानुरागेण तच्छोध्यं धर्म्मदर्शिभिः ॥” इति तिथ्यादितत्त्वम् ॥ (दशममनोर्ब्रह्मसावर्णेः देवतान्यतमः । यथा, भागवते । ८ । १३ । २२ । “हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदा द्विजाः । सुवासना विरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥” क्ली, विचाराङ्गीयदोषविशेषः । यथा । “विरुद्धं नाम यद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं तत्र दृष्टान्तसिद्धान्तावुक्तौ । समयः पुनर्यथायुर्वेदिक समयो याज्ञियसमयो मोक्षशास्त्रिकसमय इति । तत्रायुर्व्वेदिकसमयः चतुष्पादसिद्धिः । आलभ्या पशव इति याज्ञियसमयः । सर्व्वभूतेष्वहिंसेति मोक्षशास्त्रिकसमयस्तत्र स्वसमयविपरीतमुच्य- मानं विरुद्धमिति ॥” इति चरके विमान- स्थानेऽष्टमेऽध्याये ॥)



Correction: