वाचस्पत्यम्
विलक्ष || पु० वि + लक्ष—अच् । विस्मययुक्ते अमरः ।
शब्दकल्पद्रुमः
विलक्षः || त्रि (विशेषेण लक्षयतीति । वि + लक्ष + पचाद्यच् ।)
विस्मयान्वितः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ३९ । १५ । “इत्युक्त्वा स विलक्षं तं वैद्यं सूदान्नृपोऽब्रवीत् । किं तस्य च्छगलस्यापि मांसशेषोऽपि कश्चन ॥”)