वाचस्पत्यम्
विलम्बित || त्रि० वि + लवि—क्त । १ अशीघ्रे, २ मन्दे च विलम्बन्ते कण्ठकरचरणादयः प्रत्येकं प्रदर्शनाय स्वरवि- शेषज्ञानाय वा यत्र आधारे क्त । मध्यकालेन परिच्छेद्ये ३ नृत्ये ४ गीते च । ५ विलम्बयुते त्रि० । तत्र वेदपाठे काल- भेदे विलम्बवृत्तिः साञ्जेनीक्ता यथा “द्रुतामध्यमने वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपरोधार्थे विल- म्बितां समाचरेत्” ।
शब्दकल्पद्रुमः
विलम्बितं || त्रि (वि + लम्ब + क्तः ।)
अशीघ्रम् । इत्यमरे शीघ्रपर्य्यायेऽविलम्बितशब्ददर्शनात् ॥ (यथा, रघुवंशे । १ । ३३ । “विलम्बितफलैः कालं स निनाय मनोरथैः ॥”)
मन्दत्वे, क्ली । यथा, —
“विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ॥” इत्यमरः ॥ मन्दत्वशीघ्रत्व उभयेतरत्वयुतेषु नृत्यविषयक- गमनविशेषेषु क्रमात्तत्त्वादिनामत्रयं विलम्बिता- दीनां त्रयाणां लयाणां तत्त्वादिकाः संज्ञाः । इति मधुः ॥ साञ्झे । “द्रतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपरोधार्थे विलम्बितां समाचरेत् ॥” इति वेदव्यवस्था ॥ नृत्यगीतादौ च प्रत्येकमवसरबोधार्थं कण्ठ- स्वरादि विलम्बनात् । विलम्बन्ते करचरणादयः प्रत्येकं गतिविशेषप्रदर्शनायात्रेति विलम्बितम् । लवि ङ स्रंसने ध्रौव्यगत्यदनार्थादिति आधारे क्तः । भावे क्तः इति मुकुटः । इति भरतः ॥ विलम्बगमनशीलपशुः । तद्यथा । द्विरद- खड्गोष्ट्रमहिषगोगवयचमरवराहाः । इति राजनिर्घण्टः ॥