संस्कृत-शब्दकोशः

विलासिका विलासिन्

विलासिनी

वाचस्पत्यम्

विलासिनी ||‍ स्त्री० विलासोऽस्त्यस्या भूम्ना इनि ङीप् । १ नार्य्यां राजनि० । २ वेश्यायां धरणिः । ३ भोगवति त्रि० । ४ सर्पे ५ कृष्णे ६ ह्नौ च पु० मेदि० ७ चन्द्रे ८ जरे, ९ महादेवे पु० शब्दर० ।


शब्दकल्पद्रुमः

विलासिनी || स्त्री (विलासोऽस्या अस्तीति । विलास + इनिः । ङीप् ।)
नारी । इति राज- निर्घण्टः ॥ (यथा, ऋतुसंहारे । ४ । ३ । “न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि ॥”)
वेश्या । इति धनञ्जयः ॥ (यथा, महाभारते । ३ । ४६ । १४ । “सिद्धचारणगन्धर्व्वैः सा प्रयाता विलासिनी । बह्वाश्चर्य्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः ॥” विलासशालिनी । यथा, गीतगोविन्दे । १ । ४० । “विलासिनि ! विलसति केलिपरे ॥”)



Correction: