वाचस्पत्यम्
विवाद || पु० विरुद्धो वादः । “ऋणादिदायकलहे द्वयोर्बहु- तरस्य वा । विवादो व्यवहारश्च” इत्युक्तलक्षणे व्यवहारे व्यवहारशब्दे दृश्यम् । २ कलहे च ।
शब्दकल्पद्रुमः
विवादः || पुं, विरुद्धो वादो विवादः । स च धन- विभागादिविषयन्यायादिः । इति भरतः ॥ तत्पर्य्यायः । व्यवहारः २ । इत्यमरः ॥ ऋणादि- न्यायः ३ । इति जटाधरः ॥ “ऋणादिदायकलहे द्वयोर्ब्बहुतरस्य वा । विवादो व्यवहारश्च द्बयमेतन्निगद्यते ॥” इति शब्दरत्नावली ॥ * ॥
मात्रादिना विवादनिषेधो यथा, —
“आचरेत् सर्व्वधर्म्मं तद्विरुद्धन्तु न चाचरेत् । मातापित्रतिथीत्युच्चैर्विवादं नाचरेत् गृही ॥” इति गारुडे ९६ अध्यायः ॥ * ॥
अष्टादश विवादस्थानानि यथा, —
“तेषामाद्यमृणादानं निःक्षेपोऽस्वामिविक्रयः । सम्भूय च समुत्थानं दत्तस्यानपकर्म्म च ॥ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्म्मश्च पारुष्ये दण्डवाचिके । स्तेयञ्च साहसञ्चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्म्मो विभागश्च द्यूतमाह्वयमेव च । पदान्यष्टादशैतानि व्यवहारस्थिता विदुः ॥” इति मनुः ॥ अस्यार्थः । स्वधनस्यान्यस्मिन्नर्पणरूपो निक्षेपः । अस्वामिना च कृतो विक्रयः । सम्भूय बणिगा- दीनां क्रियानुष्ठानम् । दत्तस्य धनस्यापात्र- बुद्ध्या क्रोधादिना वा ग्रहणम् । कर्म्मकारस्य भृतेरदानम् । कृतव्यवस्थातिक्रमः । क्रये विक्रये च कृते पश्चात् या विप्रतिपत्तिः । स्वामिपशु- पालयोर्विवादः । ग्रामादिसीमाविप्रतिपत्तिः । वाक्पारुष्यं आक्रोशनादि । दण्डपारुष्यं ताड- नादि । स्तेयं निह्नवेन धनग्रहणम् । साहसं प्रसह्य धनहरणादि स्त्रियाश्च परपुरुषसम्पर्कः । स्त्रीसहितस्य पुंसो धर्म्मव्यवस्था । पैतृकादि- धनस्य विभागः । द्यूतं अक्षादिक्रीडा । आहूय पण्यव्यवस्थापूर्व्वकं पक्षिमेषादिप्राणियोधनम् । इति कुल्लूकभट्टः ॥ (कलहः । यथा, रघुः । ७ । ५३ । “परस्परेण क्षतयोः प्रहर्त्रो- रुत्क्रान्तवाय्वोः समकालमेव । अमर्त्त्यभावेऽपि कयोश्चिदासी- देकाप्सरःप्रार्थितयोर्बिवादः ॥”)