संस्कृत-शब्दकोशः

विवृक्ता विवृता

विवृत

वाचस्पत्यम्

विवृत ||‍ त्रि० वि + वृ—क्त । १ विस्तृते मेदि० २ व्याख्याते च । ३ क्षुद्ररुग्भेदे स्त्री मेदि० ।


शब्दकल्पद्रुमः

विवृतं || त्रि (वि + वृ + क्तः ।)
विस्तृतम् । इति मेदिनी । (यथा, शाकुन्तले १ अङ्के । “दभैरर्द्धावलीढः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा ॥” वर्णोच्चारणे प्रयत्नविशेषः । यथा, सिद्धान्तकौ- मुद्याम् । १ । १ । ९ । “स्पृष्टेषत्स्पृष्टविवृतसंवृत- भेदात् ।” “विवृतमुष्मणां स्वराणाञ्च । ह्रस्वस्या- वर्णस्यप्रयोगे संवृतम् । प्रक्रियादशायान्तु विवृत मेव ॥”)



Correction: