वाचस्पत्यम्
विशद || पु० वि + शद—अच् । १ शुभ्रवर्णे २ तद्वति त्रि० अमरः । ३ विमले हेम० । ४ व्यक्ते च त्रि० मेदि० ।
शब्दकल्पद्रुमः
विशदः || त्रि (वि + शद् + अच् ।)
विमलः । इति हेमचन्द्रः ॥ (यथा, रघुः । ४ । १८ । “प्रसादसुमुखे तस्मिन् चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत् समरसा द्वयोः ॥”)
व्यक्तः । इति मेदिनी ॥ (यथा, रघुः । ८ । ३ । “विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥”)
शुक्लगुणयुक्तः । इत्यमरः ॥ (उज्ज्वलः । यथा, माघे । ८ । ७० । “स्वच्छाम्भः स्नपनविधौतमङ्गमोष्ठ- स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीया- नाकल्पो यदि कुसुमेषुणा न शून्यः ॥”)
शब्दकल्पद्रुमः
विशदः || पुं, (वि + शद् + अच् ।)
श्वेतवर्णः । इत्यमरः ॥ (जयद्रथपुत्त्रः । यथा, भागवते । ९ । २१ । २३ । “बृहत्कायस्ततस्तस्य पुत्त्र आसीज्जयद्रथः । तत्सुतो विशदस्तस्य स्येनजित् समजायत ॥”)