वाचस्पत्यम्
विशस्त || त्रि० वि + शस—अविनये न इट् अन्यत्र इट् । धृष्टे सि० कौ० । इटि विशसित । मारिते त्रि० ।
शब्दकल्पद्रुमः
विशस्तः || त्रि अविनीतः । धृषिशसी वैघात्ये । एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टो विशस्तः । अन्यत्र धर्षितः । विशसितः । इति सिद्धान्तकौमुदी ॥