शब्दकल्पद्रुमः
विशेषकच्छेद्यं || क्ली (विशेषकैश्छेद्यम् ।) चतुः- षष्टिकलान्तर्गतषष्ठकला । इति शैवतन्त्रम् ॥ सा तु तिलकेषु नानाविच्छेदरचना । इति दशमस्कन्धीयपञ्चचत्वारिंशाध्यायटीकाव्याख्या ॥