संस्कृत-शब्दकोशः

विशेषकच्छेद्य विशेषण

विशेषगुण

वाचस्पत्यम्

विशेषगुण ||‍ पु० कर्म० । “बुद्ध्यादिषटकं रूपादिचतुष्कं स्नेहभावने । स्वाभाविकद्रवत्वञ्च अदृष्टे शब्द एव च” भाषा० उक्तेषु गुणभेदेषु ।


शब्दकल्पद्रुमः

विशेषगुणः || पुं, (विशेषो गुणः ।)
बुद्ध्यादिषट्कम् । रूपादिचतुष्टयः । स्नेहः । स्वाभाविकद्रवत्वम् । अदृष्टः । भावना । शब्दः । इति भाषापरि- च्छेदः ॥



Correction: