वाचस्पत्यम्
विशेषक || पुंन० विशेषयति वि + शिष—णिच्—ण्वुल् । १ ललाट- कृते तिलके अमरः । २ विशेषकर्त्तरि त्रि० मेदि० “त्रिभि- र्ज्ञेयं विशेषकम्” इत्युक्ते एकवाक्यतापन्ने ३ श्लोकत्रये न० । ४ तिलवृक्षे राजनि० ।
शब्दकल्पद्रुमः
विशेषकः || पुं क्ली, (विशेष एव । स्वार्थे कन् ।)
ललाटकृततिलकः । इत्यमरः ॥ (यथा, माघे । ३ । ६३ । “विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ॥”)
तिलकवृक्षे, पुं । इति राजनिर्घण्टः ॥ (क्ली, पद्यविशेषः । स तु त्रिभिः श्लोकैरन्वितश्चेत् तदा भवति । यथा, —
“द्वाभ्यान्तु युग्मकं प्रोक्तं त्रिभिः श्लोकैर्विशेष- कम् ॥”)
विशेषयितरि, त्रि । इति मेदिनी ॥