संस्कृत-शब्दकोशः

विश्रणन विश्रब्धनवोढा

विश्रब्ध

वाचस्पत्यम्

विश्रब्ध ||‍ त्रि० वि + श्रन्भ—क्त । विश्वस्ते “विश्रब्धं परिचु- म्ब्यजातपुलका” सा० द० । २ शान्ते ३ अनुद्धते त्रि० हेमच० ४ गाढे त्रि० मेदि० ।


शब्दकल्पद्रुमः

विश्रब्धः || त्रि (वि + श्रन्भ + क्तः ।)
अनुद्भटः । शान्तः । विश्वस्तः ॥ (यथा, राजतरङ्गिण्याम् । ८ । २१२१ । “विश्रब्धभृत्यः शृङ्गारनामा चाप्यब्रवीत् प्रभोः । तं दृष्टवांस्तृतीयेऽह्नि शयनेऽवगणं स्थितम् ॥”)
अत्यर्थः । इति हेमचन्द्रः ॥ गाढः । इति मेदिनी ॥ (निर्व्विशङ्कः । यथा, रामायणे । २ । १९ । ५ । “नियुज्यमानां विश्रब्धः किं न कुर्य्यामहं प्रियम् ॥”)



Correction: