संस्कृत-शब्दकोशः

विश्लेष विश्वकद्रु

विश्व

वाचस्पत्यम्

विश्व ||‍ न० विश—व । १ जगति संसारे । २ तदभिमानिनि जीये पु० । व्यस्तस्थूलदेहे प्रवेशात्तस्य तथात्वम् वेदान्तसारे उक्तम् । ३ श्राद्धदेवविशेषे पु० ब० व० । ४ सकले त्रि० ३ तदर्थेऽस्य सर्वनामता । श्राद्धदेवाश्च दशविधाः गण- देवताभेदाः यथोक्तम् “वसुसत्यौ क्रतुदक्षौ कालकामौ धुरिः कुरुः । पुरूरवा मार्द्रावाश्च विश्वे देवाः प्रकी- र्त्तिताः” द्रैवशब्दे ३७५७ पृ० दृश्यम् । ५ नागरे विश्वः ६ दक्षकन्याभेदे विश्वदेवमातरि स्त्री मत्स्यपु० ५ अ० । ७ अतिविषायां स्त्री अमरः । ८ शतावर्य्यां स्त्री राजनि० ९ विंशपलपरिमाणे स्त्री । “गुञ्जाः षण्णवतिः स्तोमो दशघ्न तत्पलं भवेत् । विश्वा विंशत्पलं प्रोक्तं” ज्योति- ष्मती । अयं परिमाणभेदः कंसवणिक्प्रसिद्धः । १० विष्णौ न० विष्णुस० । १ १ देहे न० चक्रशब्दे २८०८ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

विश्वं || क्ली (विशति स्वकारणमिति । विश प्रवे- शने + “अशूप्रषिलटिफणीति ।” उणा० १ । १५१ । इति क्वन् ।)
जगत् । इति मेदिनी । वे, २३ ॥ (यथा, भागवते । ३ । १० । १२ । “विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना ॥”)
शुण्ठी । (अस्य पर्य्यायो यथा, —
“विश्वं महौषधं शुण्ठी नागरं विश्वभेषजम् ॥” इति वैद्यकरत्नमालायाम् ॥ “शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेजम् । ऊषणं कटुभद्रञ्च शृङ्गबेरं महौषधम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
बोलम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

विश्वः || त्रि (विश + क्वन् ।)
सकलम् । इत्यमरः ॥ (यथा, महाभारते । ३ । २१८ । १६ । “यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति । तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥” बहु । इति निघण्टुः । ३ । १ ॥)


शब्दकल्पद्रुमः

विश्वः || पुं, गणदेवताविशेषः । इत्यमरः ॥ “वसुसत्यौ क्रतुदक्षौ कालकामौ धृत्रिः कुरुः । पुरूरवा माद्रवाश्च विश्वेदेवाः प्रकीर्त्तिताः ॥” इति भरतः ॥ * ॥
“इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे वसुः । नैमित्तिके कालकामौ काम्ये च धूरिलोचनौ । पुरूरवा माद्रवाश्च पार्व्वणे समुदाहृतौ ॥” इति स्मृतिः ॥ ते तु धर्म्मात् दक्षकन्यायां विश्वायां जाताः । इति मात्म्ये ५ अध्यायः ॥ * ॥
नागरः । इति विश्वः ॥ स्थूलशरीरव्यष्ट्युपहितचैतन्यम् । इति वेदान्तसारः ॥ * ॥
परिमाणविशेषः । यथा, —
“गुञ्जाषण्णवतिस्तोलो दशघ्नं तद्भवेत् पलम् । विश्वा विंशपलं प्रोक्तं दिव्यं कोटिगुणं हि तत् । सैव कोटिगुणा ब्राह्मी विश्वाः शस्यादि- सम्भवाः ॥” इति ज्योतिष्मती ॥



Correction: