वाचस्पत्यम्
विश्वामित्र || पु० विश्वं मित्रमस्य पूर्वपददीर्घः । गाधिसुते नृपे ब्रह्मर्षिभेदे हरिवं० २८ अ० ।
शब्दकल्पद्रुमः
विश्वामित्रः || पुं, (विश्वमेव मित्रमस्य । “मित्त्रे चर्षौ ।” ६ । ३ । १३० । इति विश्वस्य दीर्घः ।)
ब्रह्मर्षिविशेषः । तत्पर्य्यायः । गाधिजः २ । इति त्रिकाण्डशेषः ॥ त्रिशङ्कुयाजी ३ गाधेयः ४ कौशिकः ५ । इति हेमचन्द्रः ॥ गाधिभूः ६ । इति शब्दरत्नावली ॥ तस्योत्पत्तिर्यथा, —
“कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्त्रं स्वकं भृगुः । अथाजगाम मतिमान् स्नुषां दृष्ट्वा ननन्द च ॥ दम्पती तं समासीनं भृगुं देवगणार्च्चितम् । पूजयित्वा समासीनं तस्थतुस्तौ कृताञ्जली ॥ ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत् । वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि । अदेयं दुष्करं वापि यत्र ते वर्त्तते स्पृहा ॥ ततः सत्यवती पुत्त्रं तपस्याम्नायपारगम् । मातुश्च वीरमतुलं पुत्त्रं वरमयाचत ॥ स चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा । विश्वमावर्त्त्य मनसा यत्नात् श्वासं ससर्ज्ज सः ॥ तस्य निश्वासवातात्तु निःसृतं वै चरुद्वयम् । तस्यै तत् द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत् ॥ चरुद्वयं गृहाण त्वं स्नुषे सत्यवति स्वयम् । स्नात्वा ऋतौ ऋतौ माता तदा त्वञ्च करिष्यथः । आलिङ्ग्याश्वत्थवृक्षं ते माता पुंसवनाय वै । चरुमारक्तकं चेमं सा भोक्ष्यति सुतस्ततः ॥ त्वचौडुम्बरवृक्षन्तु समालिङ्ग्य सितं चरुम् । भोक्ष्यस्येतेन पुत्त्रस्ते भविष्यति सनातनः ॥ एवमुक्त्वा भृगुर्यातो यथेच्छं सापि संमुदम् । अवाप मात्रा सहिता भर्त्रा पित्रा च भाविनी । अथ स्नानदिनेऽश्वत्थमालिङ्ग्यारक्तकं चरुम् । अद्यात् सत्यवती तस्या माता फल्गुं सितं चरुम् ॥ परिवर्त्तन्तु तं ध्यात्वा दिव्यध्यानो भृगुर्म्मुनिः । अथागत्य स्नुषां तान्तु वचनञ्चेदमब्रवीत् ॥ विपर्य्ययस्त्वया भद्रे वृक्षालिङ्गनकर्म्मणि । तथा चरुप्राशने च तत्रेदन्ते भविष्यति ॥ ब्राह्मणः क्षत्त्रियाचारस्तव पुत्त्रो भविष्यति । क्षत्त्रियो प्राह्मणाचारो मातुस्ते भविता सुतः ॥ इत्युक्ता भृगुणा साध्वी तदा सत्यवती भृगुम् । पुनः प्रसादयामास पौत्त्रो मेऽस्त्विति तादृशः । एवमस्त्विति प्रोक्त्वा स तत्रैवान्तर्द्दधे भृगुः ॥ अथ काले सुतं दीप्तं यमदग्निञ्च गाधिजा । सुषुवे जननी तस्या विश्वामित्रं तपोनिधिम् ॥ यमदग्निस्ततो वेदान् चतुरः प्राप माचिरम् । प्रादुरासद्धनुर्व्वेदः स्वयं तस्मिन् महात्मनि ॥ विश्वामित्रोऽपि सकलान् वेदानपि तथाचिरात् । धनुर्व्वेदं तथा कृत्स्नं विप्रश्चाभूत्तपोधनः ॥ जाज्वल्यमानस्तेजस्वी यमदग्निर्म्महातपाः । वेदैस्तपोभिः स मुनीनत्यक्रामच्च सूर्य्यवत् ॥” इति कालिकापुराणे ८४ अध्यायः ॥ (आयुर्व्वेदपारदर्शी सुश्रुतोऽस्य पुत्त्रः । यथा, —
“अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन् । अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते ॥ विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् । वत्स ! वारानसीं गच्छ त्वं विश्वेश्वरवल्लभाम् ॥ तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः । स हि धन्वन्तरिः साक्षादायुर्व्वेदविदांवरः ॥ आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे । सर्व्वप्राणिदयातीर्थमुपकारो महामखः ॥ पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः । तेन सार्द्धं समध्येषु मुनिसूनुशतं ययौ ॥” इति भावप्रकारशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति ॥” इत्युत्तरतन्त्रे षट्षष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥ विश्वस्मिन्नास्तिमित्रं यस्मात् । परममित्रम् । यथा, “जनकेनाभिरामाय ददौ राज्यमकण्टकम् । मिश्वामित्रं पुरस्कृत्य वनवासं ततो ययौ ॥” इत्युद्भटः ॥)