संस्कृत-शब्दकोशः

विषुप विषुवत्

विषुव

वाचस्पत्यम्

विषुव ||‍ ग० विषु दिनरात्र्योः साम्यं वाति वा—क । १ सम- रात्रिदिनकाले अमरः । अयनांशक्रमणे २ रवेः तुला- मेषराशिसंक्रान्तिभेदे च ||‍“मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलनध्ये तथापरा” ज्यो० त० । “भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम् । अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः” सू० सि० । “भचक्रनाभौ भगोलस्य ध्रुवद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वितयं समसू- त्रग परस्परं व्याससूत्रान्तरितं ध्रुवमध्ये विषुवद्वृत्त- स्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमेण पूर्वापरौ विषुवत्सञ्ज्ञौ मेषतुल्याख्यौ चेत्यर्थः” रङ्ग० कालभेदे विषुवसंक्रमणरम्भांशभेदः अयनसंक्रान्तिशब्दे दर्शितः सत्कृत्यमुक्ता० संक्षिप्य कालभेदे विषुवारम्भणाद्युक्तं यथा “मेषसंक्रमतः पूर्वं पश्चात्तरादिनान्तरे । प्राति- लोम्येन साम्येन विषुवारम्भणं भवेत् । त्रयोदशदिने सौरे चैत्रे नखतिथौ १५२० शके । विषुवारम्भणं तत्र समं मानं दिवानिशोः । ततः प्रतिदिनं वेला सपादत्रिपला- त्मिका । वर्द्धते मेषविश्वांशपर्य्यन्तं स्थूलमार्गतः । तथाज्यैष्ठान्तपर्य्यन्तं पादोनत्रिपलात्मिका । तादृशा- षाढपर्य्यन्तं पलैकप्रमिता मता । ततः कर्कटविश्वांश- पर्य्यन्तं प्रत्यहक्रमात् । सपादपलमानेन वेला त्रु- द्यति निश्चितम् । तादृग्भाद्रान्तपर्य्यन्तं पादोनत्रि- पलात्मिका । दिवामानं दण्डषष्टेस्त्यक्ता रात्रेः प्रमा- णकम् । वैशाखादौ दिवामानं रात्रिमानं तुलादिषु । षट्षष्टितत्सरानेवं ततः स्यात् द्वादशांशके । पुनस्तद्वत् सरांस्तद्वत् तत एकादशादिके” ।


शब्दकल्पद्रुमः

विषुवं || क्ली समरात्रिन्दिवकालः । तत्पर्य्यायः । विषुवत् २ । इत्यमरः ॥ विषुपम् ३ विष्वक् ४ विश्वक् ५ । इति शब्दरत्नावली ॥ विषुणः ६ । इति रामाश्रमः ॥ विषुवः ७ । इति मुकुटः ॥ तत्तु मेषतुलयोः संक्रान्ती । यथा, —
“मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
ते तु महाविषुवजलविषुवनामभ्यां क्रमेण ख्याते । यथा, —
“विषुवाभ्यां वत्सरः स्यादिति शब्दविदां मतम् । महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम् । तथा स्याज्जलविषुवं क्रमादाश्विनचिह्नितम् ॥” इति शब्दरत्नावली ॥ * ॥
विषुवारम्भकालो यथा, —
“मृगसंक्रान्तितः पूर्व्वं पश्चात् तारा दिनान्तरे । एकवर्षे चतुःपञ्चपलमानक्रमेण तु । षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः । एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥ व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम् । कर्किसंक्रमणे तद्वदभितो दक्षिणायनम् ॥ अयनांशक्रमेणैव विषुवारम्भणं तथा । रविसंक्रान्तितो मेषतुलयोरभितः पुनः ॥ विषुवं मीनकन्यार्द्धे त्वेकाक्षीन्द्रशकाब्दके । दिनमानाय मीनार्द्धान्मेषार्द्धं पालिकं शतम् ॥ ततो वृषार्द्धपर्य्यन्तमशीतिः पलभाजिनी । मिथुनार्द्धं चतुस्त्रिंशत्पलानां वर्द्धते क्रमात् ॥ कर्कटार्द्धन्तु षट्त्रिंशत् सिंहार्द्धन्तु द्व्यशीतकम् । कन्यार्द्धन्तु द्विनवतिः क्रमात् त्रुट्यति वासरे ॥ कन्यार्द्धाद्रजनीमानं बोध्यं पूर्ब्बक्रमेण हि । दिने दिने भागहारान्मानं बोध्यं दिवानिशोः ॥ एकमानं दण्डषष्ट्या त्यक्त्रान्यमाननिर्णयः । षट्षष्टिवत्सरानेवं ततः स्यात् षोडशांशके । पुनस्तद्वत्सरांस्तद्वत् एवं सप्तदशादिके ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
अन्यच्च “मेषसंक्रमतः पूर्व्वं पश्चात्तारा दिनान्तरे । प्रातिलोम्यानुलोम्येन विषुवारम्भणं भवेत् ॥ त्रयोदशदिने सौरे चैत्रे नखतिथौ शके । विषुवारम्भणं तत्र समं मानं दिवानिशोः ॥ ततः प्रतिदिनं वेला सपादत्रिपलात्मिका । वर्द्धते मेषविश्वांशपर्य्यन्तं स्थूलमार्गतः ॥ तथा ज्येष्ठान्तपर्य्यन्तं पादोनत्रिपलात्मिका । तादृगाषाढपर्य्यन्तं पलैकप्रमिता मता ॥ ततः कर्क्कटविश्वांशपर्य्यन्तं प्रत्यहं क्रमात् । सपादपलमानेन वेला त्रुट्यति निश्चितम् ॥ तादृग्भाद्रान्तपर्य्यन्तं पादोनत्रिपलात्मिका । तादृगाश्विनशेषान्तं हरनेत्रपलात्मिका ॥ दिवामानं दण्डषष्टेस्त्यक्त्वा रात्रेः प्रमाणकम् । वैशाखादौ दिवामानं रात्रिमानं तुलादिषु ॥ षट्षष्टिवत्सरानेवं ततः स्यात् द्वादशांशके । पुनस्तद्वत्सरांस्तद्वत् तत एकादशादिके ॥” इति सत्कृत्यमुक्तावली ॥



Correction: