वाचस्पत्यम्
विष्णुपुराण || न० व्यासप्रणीते महापुराणभेदे तत्प्रतिपाद्य- विषयाश्च वृहन्नारदीरे ९४ अ० उक्ता यथा “शृणु वत्स! प्रवक्ष्यामि पुराणं वैष्णवं महत् । त्रयो- विंशतिसाहस्रं सर्वपातकनाशनम् । यत्रादिभागे नि- र्दिष्टाः षडंशाः शक्तृजेन ह । मैत्रेयायादिमे तत्र पुराणस्यावतारिका” । तत्र प्रथमभागस्य प्रथमांशे “आदिकारणसर्गश्च देवादीनाञ्च सम्भवः । समुद्रमथना- ख्यानं दक्षादीनां कथाचयः । ध्रुवस्य चरितं चैव पृथोश्चरितमेव च । प्राचेतसं तथाख्यानं प्रह्लादस्य कथा- नकम् । पृथुराज्याधिकाराख्यः प्रथमोऽंश इति- रितः । पातालनरकाख्यानं सप्तसर्गनिरूपणम् । सूर्य्यादिचारकथनं पृथग्लक्षणसंगतम् । चरितं भरत- स्याथ मुक्तिमार्गनिदर्शनम् । निदाघ ऋतुसंवादो द्विती- योऽंश उदाहृतः” । प्रथमभागस्य तृतीयांशे “मन्वन्तरस- माख्यानं वेदव्यासावतारकम् । नरकोद्धारकं कर्म गदितञ्च ततः परम् । सगरस्यैर्वसंवादे सर्वधर्मनिरूपणम् । श्राद्ध- कल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धने । सदाचारश्च कथितो मायामोहकथा ततः । तृतीयोऽंशोऽयमुदितः सर्वपाप- प्रणाशनः” । प्रथमभागस्य चतुर्थांशे “सूर्य्यवंशकथा पुण्या सोमवंशानुकीर्त्तनम् । चतुर्थेऽंशे मुनिश्रेष्ठ! नामाराजकथाचितम्” । प्रथमभागस्य पञ्चमांशे “कृ- ष्णावतारसंप्रश्नो गोकुलीया कपा ततः । पूतनादिबधो बाल्ये कौमारेऽघादिहिंसनम् । कैशोरे कंसहननं माथुरं चरितं तथा । ततस्तु यौवने प्रोक्ता लीला द्वार- वतीभवा । सर्वदैत्यबधो यत्र विवाहाश्च पृथग्विधाः । यत्र स्थित्वा जगन्नाथः कृष्णो योयेश्चरेश्वरः । भूभार- हरणं चक्रे परस्वहननादिभिः । अष्टावक्रीय- माख्यानं पञ्चमोऽंश इतीरितः” । प्रथमभागस्य षष्ठांशे “कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च । ब्रह्म- ज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः । केशिध्वजेन चेत्येषः षष्ठोऽंशः परिकीर्त्तितः” । तस्य द्वितीयभागे “अतःपरन्तु सूतेन शौनकादिभिरादरात् । पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः । नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः । धर्मशास्त्रं चार्थशास्त्रं पेदान्यं ज्योतिषं तथा । वंशाख्यानं प्रकरणात् स्तो- त्राणि मनवस्तथा । नानाविद्याश्रयाः प्रोक्ताः सर्वलोको पकारकाः । एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहः” तत्फलश्रुतिः “वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह । यो नरः पठते भक्त्या यः शृणोति च सा- दरम् । तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ । तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना । सहितं विष्णुभ्रक्ताय पुराणार्थविदे द्विज! । स याति वैष्णवं धाम विमानेनार्कवचसा । यश्च विष्णुपुराणस्य समनु- क्रमणीं द्विज! । कथयेच्छृणुयाद्वापि स पुराणफलं लभेत्” ।