संस्कृत-शब्दकोशः

विष्णुपुराण विष्णुमाया

विष्णुभक्ति

शब्दकल्पद्रुमः

विष्णुभक्तिः || स्त्री (विष्णौ भक्तिः ।)
भगवत्सेवा । यथा, — सूत उवाच । “विष्णुभक्तिं प्रवक्ष्यामि यया सर्व्वमवाप्यते । यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥ महतः श्रेयसो मूलं प्रवसः पुण्यसन्ततेः । जीवितस्य फलं स्वादु ददाति स्मरणं हरेः ॥ भज इत्येष वै धातुः सेवायां परिकीर्त्तितः । तस्मात् सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी ॥ ते भक्ता लोकनाथस्य नामकर्म्मादिकीर्त्तने । मुञ्चन्त्यश्रूणि संहर्षात् ये च हृष्टतनूरुहाः ॥ जगद्धातुर्म्महेशस्य दिव्याज्ञा चरणाव्ययाः । इह नित्यक्रियाः कुर्य्युः स्निग्धा ये वैष्णवास्तु ते ॥ प्रणामपूर्ब्बकं क्षान्त्या यो वदेद्वैष्णवो हि सः । तद्भक्तजनवात्सल्यम्पूजायाञ्चानुमोदनम् । तत्कथाश्रवणे प्रीतिः स्वरनेत्राङ्गविक्रिया ॥ येन सर्व्वात्मना विष्णौ भक्त्या भावो निवेशितः । विप्रेष्वीश्वरदृष्टिश्च महाभागवतो हि सः ॥ विष्णोश्च कारणं नित्यं तदन्नं दम्भवर्जितम् । स्वयमभ्यर्च्चनञ्चैव यो विष्णुं चोपजीवति ॥ भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते ॥ स विप्रेन्द्रो मुनिः श्रीमान्सजातः स च पण्डितः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥ स्मृतः संभाषितोऽद्यापि पूजितो वा द्बिजोत्तमः । पुनाति भगवद्भक्तस्तपसोऽपि यदृच्छया ॥ प्रणताय प्रपन्नाय तवास्मीति च यो वदेत् । अभयं सर्व्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥ मन्त्रयाजिसहस्रेभ्यः सर्व्ववेदान्तपारगाः । सर्व्ववेदान्तवित् कोट्या विष्णुभक्तो विशिष्यते । ऐकान्तिकाश्च पुरुषा गच्छन्ति परमं पदम् ॥ एकान्तेनासमो विष्णुर्यस्मादेषां परायणः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥ प्रियाणामपि सर्व्वेवां देवदेवस्य सुप्रियः । आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पतु ॥ अन्तर्गतोऽपि वेदानां सर्व्वशास्त्रार्थवेद्यपि । यो न सर्व्वेश्वरे भक्तस्तं विद्यात् पुरुषाधमम् ॥ नाधीतवेदशास्त्रोऽपि न कृताध्वरसंस्तरः । यो भक्तिं वहते विष्णौ तेन सर्व्वं कृतं भवेत् ॥ यज्ञानां क्रतुमुख्यानां सर्व्वेषां पारगा अपि । न तां यान्ति गतिं भक्त्या यां यान्ति मुनिसत्तम ॥ यः कश्चिद्बैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी । पुतानि सकलान् लोकान् सहस्रांशुरिबोदितः ॥ ये नृशंसा दुरात्मानः पापाचाररतास्तथा । तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥ दृढा जनार्द्दने भक्तिर्यदैवाव्यभिचारिणी । तदा कियत् स्वर्गसुखं सैव निर्व्वाणहैतुकी ॥ भ्राम्यतां तत्र संसारे नराणां कर्म्मदुर्गमे । हस्तावलम्बनो ह्येको भक्तितुष्टो जनाद्दनः ॥ न शृणोति गुणान् दिव्यान् देवदेवस्य चक्रिणः । स नरो वधिरो ज्ञेयः सर्व्वधर्म्मबहिष्कृतः ॥ नाम्नि संकीर्त्तिते विष्णोर्यस्य पुंसो न जायते । शरीरं पुलकोद्भासि तद्भवेत् कुणपोपमम् ॥ यस्मिन् स्मृते द्विजश्रेष्ठ मुक्तिरप्यचिराद्भवेत् । विष्णौ निविष्टमनसां किं पुनर्वृजिनक्षयः ॥ स्वपुरुषमभिबीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ अपि चेत् सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं नियच्छति । विप्रेन्द्र प्रतिजानीहि विष्णुभक्तो न नश्यति ॥ धर्म्मार्थकामैः किन्तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा हरौ ॥ दैवी ह्येषा गुणमयी हरेर्म्माया दुरत्यया । तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ कियदाराधने पुंसामिष्यते हरिमेधसः । भक्त्यैवाराध्यते विष्णुर्नान्यत्तत्तोषकारणम् ॥ न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः । तोषमेति महात्मासौ यथा भक्त्या जनार्द्दनः ॥ संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे । कदाचित् केशवे भक्तिस्तद्भक्तैर्व्वा समागमः ॥ पत्रेषु पुष्पेषु फलेषु तोये- ष्वकष्टलभ्येषु सदैव सत्सु । भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यै कथं न क्रियते प्रयत्नः ॥ आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवोऽस्मत्कुले जातः स नः सन्तारयिष्यति ॥ अज्ञानिनः सुरवरं समधिक्षिपन्ति ये पापिनोऽपि शिशुपालसुयोधनाद्याः । मुक्तिं गताः स्मरणमात्रविधूतपापाः कः संशयः परमभक्तिमतां जनानाम् ॥ शरणं तं प्रपन्ना ये ध्यानयोगविवर्ज्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥ भवोद्भवक्लेशशताहतस्तथा परिभ्रमन्निन्द्रियबन्धकैः पथैः । नियम्यतां माधव मे मनोहय- स्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥ विष्णुरेव परं ब्रह्म ह्यभेदमिह पठ्यते । वेदसिद्धान्तमार्गेषु तं न जानन्ति मोहिताः ॥ वसति हृदि सनातने च तस्मिन् भवति पुमान् जगतोऽस्य सौम्यरूपः । क्षितिवसनमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव मानपतेः ॥” इति गारुडे २३१ अध्यायः ॥



Correction: