वाचस्पत्यम्
विष्णुमाया || स्त्री ६ त० । विष्णोः परमेश्वरस्य माया । १ अघ- टनघटनपटीयस्याम् ईशस्याविद्याशक्तौ २ तदधिष्ठात्य्रां दुर्गायाञ्च ।
शब्दकल्पद्रुमः
विष्णुमाया || स्त्री (विष्णोर्माया ।)
दुर्गा । यथा, — नारद उवाच । “दुर्गा नारायणीशाना विष्णुमाया शिवा सती । नित्या सत्या भगवती सर्व्वाणी सर्व्वमङ्गला ॥ अम्बिका वैष्णवी गौरी पार्व्वती च सनातनी । नामानि कौथुमोक्तानि शुभानि शुभदानि च ॥ अर्थं षोडशनाम्नाञ्च सर्व्वेषामीप्सितं वरम् । ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्व्वसम्मतम् ॥ नारायण उवाच । सृष्ट्वा मायां पुरा सृष्टौ विष्णुना परमात्मना । मोहितं मायया विश्वं विष्णुमाया च कीर्त्तिता ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ अपि च । ब्रह्मोवाच । “विष्णुमायामृते दक्ष महामायां जगन्मयीम् । नान्या संमोहकर्त्री स्यात् सन्ध्या सावित्र्यु- पासिका ॥ तस्मादहं विष्णुमायां योगनिद्रां जगत्प्रसूम् । स्तौमि सा चारुरूपेण शङ्करं मोहयिष्यति ॥ भवांश्च दक्ष तामेव यजतां विश्वरूपिणीम् । यथा तव सुता भूत्वा हरजाया भविष्यति ॥” इति कालिकापुराणे ५ अध्यायः ॥