वाचस्पत्यम्
विसर्ग || पु० वि + सृज—घञ् । १ दाने २ त्यागे ३ मलत्यागे ४ विसर्जनीयाख्ये ५ वर्णभेदे ६ सूर्य्यस्यायनभेदे ७ मोक्षे हला० । ८ प्रलये ९ विशेषसृष्टौ शब्दरला० “विश्वसर्गविस- र्गादिनवलक्षणलक्षितमिति” श्रीधरः ।
शब्दकल्पद्रुमः
विसर्गः || पुं, (वि + सृज + घञ् ।)
दानम् । (यथा, रघुवंशे । ४ । ८६ । “आदानं हि विसर्गाय सतां जलमुचामिव ॥”)
व्यागः । (यथा, महाभारते । १ । ३२ । १३ । “नानाशस्त्रविसर्गैस्तैर्व्वध्यमानः समन्ततः ॥”)
मलनिर्गमः । विसर्ज्जनीयः । (यथा, भाग- वते । ६ । ८ । १० । “सविसर्गं फडन्तं तत् सर्व्वदिक्षु विनिर्द्दिशेत् ॥”)
सूर्य्यस्यायनभेदः । इति मेदिनी । गे, ५० ॥ मोक्षः । इति हलायुधः ॥ विसृष्टः । इति शब्दरत्नावली ॥ विशेषसृष्टिः । यथा, —
“पुरुषानुगृहीतानामेतेषां वासनामयः । विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥” इति श्रीभागवतम् ॥ विसर्ज्जनीयस्य पर्य्यायः । “अः सर्गो रसना वक्त्रं विसर्गश्च द्बिबिन्दुकः । नादोऽर्द्धेन्दुरर्द्धमात्रा कला राशी सदाशिवः । अनुच्चार्य्या तुरीया च विश्वमातृकला परा ॥” इति बीजाभिधानम् ॥ अपि च । “अः कण्ठको महासेनः कला पूर्णामृता हरिः । इच्छा भद्रा गणेशश्च रतिविद्यामुखी सुखम् ॥ द्विबिन्दुरसना सोमोऽनिरुद्धो दुःखसूचकः । द्विजिह्वः कुण्डलं वक्रं सर्गः शक्तिर्निशाकरः । सुन्दरी सुयशानन्ता गणनाथो महेश्वरः ॥” इति बीजवर्णाभिधानान्तरम् ॥ अन्यच्च । “विसर्गः सर्गमाख्यातो वियद्विषयमासनः । अनिरुद्धो महेशानि कालज्ञोऽपि रमापि च ॥” इति वर्णाभिधानम् ॥ (प्रयोगः । यथा, भागवते । १ । ५ । ११ । “तद्वाग्विसर्गो जनताघविप्लवः ॥”)