वाचस्पत्यम्
विसर्जन || न० वि + सृज—ल्युट् । १ दाने अमरः २ त्यागे च । वि + सृज—णिच् ल्युट् । ३ प्रेरणे मेदि० ।
शब्दकल्पद्रुमः
विसर्ज्जनं || क्ली (वि + सृज् + ल्युट् ।)
दानम् । परित्यागः । इत्यमरः ॥ (यथा, रघुवंशे । ८ । २५ । “श्रुतदेहविसर्ज्जनं पितु- श्चिरमश्रूणि विमुच्य राघवः ॥”)
संप्रेषणम् । इति मेदिनी । ने, २०५ ॥ (पुं, यदुवं- शीयानामन्यतमः । यथा, भागवते । ११ । ३० । १८ । “विसर्ज्जनाः कुकुराः कुन्तयश्च मिथस्तु जघ्नुः सुविसृज्य सौहृदम् ॥” विशेषेण सृज्यते इति । वि + सृज + कर्म्मणि ल्युट् । उत्पादिते, त्रि । यथा, भागवते । १० । १६ । ५७ । “त्वया सृष्टमिदं विश्वं धातुर्गुणविसर्ज्जनम् ॥”)