संस्कृत-शब्दकोशः

विसर्जन विसर्पण

विसर्प

वाचस्पत्यम्

वि(वी)सर्प ||‍ पु० वि + सृप—घञ् वा दीर्घः । रोगभेदे तल्लक्ष- णादि भावप्र० उक्तं यथा तत्र विसर्पविप्रकृष्टनिदानं संख्यां निरुक्तिञ्चाह “लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः । विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात्” आदिशब्दाच्चर- कोक्तहरितशाकभण्डाकीप्रभृतीनां ग्रहणम् । सप्तधात्वं विवृणोति “वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः । चात्वारः एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः । आग्नेयो वातपित्ताभ्यां ग्रन्थिस्थः कफवातजः । यस्तु कर्दमको थोरः स पित्तकफसम्भवः” । विसर्पदोषदूष्याणि संगृह्याह “रक्तं लसीकात्वङ्मांसं दूष्यं दोषास्त्रयो मलाः । विस- र्पाणां समुत्पत्तौ हेतवः सप्त धातवः” । त्रयो मलाः वात- पित्तकफाः दोषा दूषका इत्यर्थः । अन्यथा दोषामला इत्यत्र पुनरुक्तिदोषो लगिष्यते । वातिकस्य लक्षणमाह “तत्र वातात्परीसर्पो वातज्वरसमव्यथः । शोफस्फुरण- निस्तोदभेदायामार्तिहर्षवान्” । परीसर्पो विसर्पः । वातज्वरसमव्यथः शिरोहृद्गात्रोदरशूलादियुक्तः । भेदः विदारणेनेव व्यथा । आयामः आकर्षणेन व्यथा । पैत्तिकमाह “पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽति- लोहितः” । द्रुवगतिः शीथ्रप्रसरणशीलः । अथ श्लै- ष्मिकमाह “कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्” । सान्निपातिकमाह “सन्निपातसमुत्थश्च सर्वरूपसमन्वितः” । वातपैत्तिकमाह “वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्- भ्रमैः । अस्थिभेदोऽग्निमदनतमसारोचकैर्युतः । करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् । यं यं देशं विसर्पश्च विसर्पति भवेत् स सः । शीताङ्गारासितो वीतो रक्तो वा सूपचीयते । अग्निदग्ध इव स्फाटः शीघ्रगत्वाद् द्रु- तञ्च सः । मर्मानुसारी वीसर्पः स्याद्वातातिवन्तुस्ततः । व्यथेताङ्गं हरेत् संज्ञां निद्राञ्च श्वासमीरयेत् । हिध्माञ्च स गतोऽवस्थामीदृशीं लभते नरः । कचिच्छर्माऽरति- ग्रस्तो भूमिशय्यासनादिषु । चेष्टमानस्ततः क्लिष्टो मनो देहसमुद्भवाम् । दुःप्रबोधोऽश्रुते निद्रां सोऽग्निवीसर्प उच्यते” । स्फोटः सूपचीयत इत्यन्वयः । “मर्मानु- सारी उदरहृदयानुसारी हरेत् विसर्प इत्यन्वयः हिघ्मां हिक्काम् ईरयेत् उपर्य्युपरि प्रेरयेत् । मनोदेहसमुद्भवां निद्रां मरणरूपाम् । अश्नुते प्राप्नोति । वातश्चैष्मिकं ग्रन्थिविसर्पमाह “कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् । रक्तञ्च वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् । दूषयित्वा तु दीर्घार्युवृत्तस्थूलखरात्मनाम् । ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् । श्वासकासाति- सारांश्च शोषहिक्कावमिभ्रमैः । मोहवैवर्ण्यमूर्च्छाङ्ग- मङ्काग्निसदनैर्युतः । इत्ययं ग्रन्थिवीसर्पो वातश्लेष्म- प्रकोपजः” । कफेन स्वहेतुदुष्टेन पवनोऽपि स्वहेतु- दुष्टः । तेनायं वातश्लैष्मिकः । तं कफं बहुधा भित्त्वा रक्तं वा दूषययित्वेत्यन्वयः । त्वगादिकमिति रक्तस्य विशेषणम् । अथ पित्तश्लैष्मिकं कर्दमाख्यं विसर्पमाह “कफपित्तज्वरस्तम्मनिद्रातन्द्राशिरोरुजाः । अङ्गा- वसादविक्षेपप्रलापारोचकम्रमाः । मूर्च्छाग्नि हानिर्भेदो- ऽस्थ्नां पिपासेन्द्रियगोरवा । आगोपवेशनं लेपः स्रोत- साञ्च विसर्पति । प्रायेणामाशयं गृह्णन्नेकदेशं न चाति- रुक् । पोडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः । न्वि- ग्धोऽसितो मेचकाभो मलिनः शोफवान् गुरुः । गम्भीर- पाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्य्यते । पङ्कत्वक्शीर्ण- मांसश्च स्पृष्टस्नायुसिरागणः । शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्” । स च सर्पति एकदेशमित्यन्वयः । सीडकैः पीडाकारिभिः । अवकीर्णः व्याप्तः । असितः कणः । मेचकः रूक्षकृष्णः । प्राज्योष्मा प्रचुरोष्मा । स्पृष्टः क्लिन्नोऽवदीर्य्यते । स्पृष्टः सन्नार्द्रो भवति विदी- र्य्यते । पङ्कत्वक् कर्दमवर्णत्वक् यत्र सः । शीर्णमांसः गलितमासः । अत एव स्पृष्टस्नायुसिरागणः । सान्नि- पातिवकाह “सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः” । अथ क्षतजं विसर्पमाह “बाह्यहेतोः क्षतात् क्रुद्धः स- रक्तं पित्तमीरयन् । विसर्पं मारुतः कुर्य्यात् कुलात्यसदृशै- श्चितम् । स्फोटैः शोथज्वररुजादाहाद्यं श्यावशोणितम्” । वाह्यहेतोः शस्त्रषहारव्यालदन्तनखाद्यागन्तुहेतोः । श्या- वशोणितं कृष्णवर्णरक्तम् । उपद्रवानाह “ज्वरातिसारौ वमथुस्त्वग्मांसदरणक्लम्भः । अरोचकविपाकौ च विसर्पा- णामुपद्रवाः” । साध्यत्वादिकमाह “सिद्ध्यन्ति वातकफ- पित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति । पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव” ।


शब्दकल्पद्रुमः

विसर्पः || पुं, (वि + सृप + घञ् ।)
रोगविशेषः । तत्पर्य्यायः । विसर्पिः २ सचिवामयः ३ । इति राजनिर्घण्टः ॥ तत्र विप्रकृष्टं निदानं संख्यां निरुक्तिञ्चाह । “लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः । विसर्पः सप्तधा ज्ञेयः सर्व्वतः परिसर्पणात् ॥” आदिशब्दाच्चरकोक्तहरितशाकशिण्डाकप्रभृ- तीनां ग्रहणम् ॥ * ॥
सप्तधात्वं विषृणोति । “पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्बन्द्वजास्त्रयः । वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः ॥ आग्नेयो वातपित्ताभ्यां ग्रन्थाख्यः कफवातजः । यस्तु कर्दमको घोरः स पित्तकफसम्भवः ॥” * ॥
विसर्पदोषदूष्याणि संगृह्याह । “रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः । विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः ॥” त्रयो मलाः वातपित्तकफाः । दोषाः दूषका इत्यर्थः । अन्यथा दोषा मला इत्यत्र पुनरुक्ति- दोषोऽगलिष्यत् ॥ * ॥
वातिकस्य लक्षणमाह । “तत्र वातात् परीसर्पो वातज्वरसमव्यथः । शोफस्फुरणनिस्तोदभेदायामार्त्तिहर्षवान् ॥” परीसर्पो विसर्पः । वातज्वरसमव्यथः शिरो- हृद्गात्रोदरशूलादियुक्तः । भेदः विदारणेनेव व्यथा । आयामः आकर्षणेनेव व्यथा ॥ * ॥
पैत्तिकमाह । “पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ॥” द्रुतगतिः शीघ्रप्रसरणशीलः ॥ * ॥
श्लैष्मिक- माह । “कफात् कण्डुयुतः स्निग्धः कफज्वरसमानरुक् ॥” सान्निपातिकमाह । “सन्निपातसमुत्थश्च सर्व्वरूपसमन्वितः ॥” * ॥
वातपैत्तिकस्याग्निविसर्पाख्यस्य च लक्षणमाह । “वातपित्तज्वरच्छर्द्दिमूर्च्छातीसारतृड् भ्रमैः । अस्थिभेदाग्निसदनतमकारोचकैर्युतः ॥ करोति सर्व्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् । यं यं देशं विसर्पश्च संसर्पति भवेत् स सः ॥ शान्ताङ्गारासितो नीलो रक्तो वा सूपचीयते । अग्निदग्ध इव स्फोटैः शीघ्रगत्वात् द्रुतञ्च सः ॥ मर्मानुसारी वीसर्पः स्यादतोऽतिबलस्ततः । व्यथेताङ्गं हरेत् संज्ञां निद्राञ्च श्वासमीरयेत् ॥ हिध्माञ्च संगतोऽवस्थामीदृशीं लभते नरः । क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु ॥ चेष्टमानस्ततः क्लिष्टो मनोदेहसमुद्भवाम् । दुःप्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ॥” स्फोटैः उपचीयत इत्यन्वयः । मर्मानुसारी हृदयानुसारी । हरेत् वीसर्प इत्यन्वयः । हिघ्मां हिक्काम् । ईरयेत् उत्पत्तुं प्रेरयेत् । मनोदेह- समुद्भवां निद्रां मरणरूपाम् । अश्नुते प्राप्नोति ॥ * वातश्लैष्मिकग्रन्थिविसर्पमाह । “कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् । रक्तं वा वृद्धरक्तस्य त्वक्शिरास्नायुमांसगम् ॥ दूषयित्वा तु दीर्घायुर्वृत्तस्थूलस्वरात्मनाम् । ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्जराम् ॥ श्वासकाशास्यवैरस्यशोषहिक्कावमिभ्रमैः । मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाङ्गसदनैर्युतः । इत्ययं ग्रन्थिवीसर्पो वातश्लेष्मप्रकोपजः ॥” कफेन स्वहेतुदुष्टेन पवनोऽपि स्वहेतुदुष्टः । तेनायं वातश्लेष्मिकः । तं कफं बहुधा भित्त्वा रक्तं वा दूषयित्वा इत्यन्वयः । त्वगादिकमिति रक्तविशेषणम् ॥ * ॥
पित्तश्लैष्मिकं कर्दमाख्यं विसर्पमाह । “कफपित्तज्वरास्तम्भो निद्रातन्द्राशिरोरुजा । अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः ॥ मूर्च्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् । आमोपवेशनं लेपस्रोतसाञ्च विसर्पति ॥ प्रायेणामाशये गृह्णन्नेकदेशं न चातिरुक् । पिडकैरवकीर्णेति पीतलोहितपाण्डुरैः ॥ स्निग्धोऽसितो मेचकाभो मलिनः शोफवान् गुरुः । गम्भीरपाकः प्राज्योष्मा क्लिन्नः क्लिष्टो विदीर्य्यते । पङ्कत्वक् शीर्णमांसस्य स्पष्टस्नायुशिरागणः । शवगन्धिश्च वीसर्पः कर्द्दमाख्यमुशन्ति तम् ॥” स च सर्पति एकदेशमित्यन्वयः । पिडकैः पिडकाभिः । अवकीर्णः व्याप्तः । असितः कृष्णः । मेचकः रूक्षकृष्णः । प्राज्योष्मा प्रचु- रोष्मा । स्पष्टः क्लिन्नोऽवदीर्य्यते स्पृष्टः सन्नार्द्रो भवति विदीर्य्यते च । पङ्कत्वक् कर्दमवर्णा त्वग्- यत्र सः । शीर्णमांसः गलितमांसः । अतएव स्पष्टस्नायुशिरागणः ॥ * ॥
सान्निपातिक- माह । “सन्निपातसमुत्थस्तु सर्व्वरूपसमन्वितः ॥” * ॥
क्षतजञ्च विसर्पमाह । “बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् । वीसर्पमारुतः कुर्य्यात् कुलत्थसदृशैश्चितः । स्फोटैः शोथज्वररुजा दाहाद्यं श्यावशो- णितम् ॥” बाह्यहेतोः शस्त्रप्रहारव्यालदन्तनखाद्यागन्तु- हेतोः । श्यावशोणितं धूम्रवर्णरक्तम् ॥ * ॥
उपद्रवानाह । “ज्वरातीसारवमथुस्तृण्मांसदरणक्लमाः । अरोचकविपाकौ च विसर्पाणामुपद्रवाः ॥” * ॥
साध्यत्वादिकमाह । “सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्व्वात्मकक्षतकृतश्च न सिद्धिमेति । पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति च सर्व्व एव ॥” पित्तात्मकोऽञ्जनवपुः पित्तजः सन् कज्जलवर्णः । सर्व्व एवासाध्या अपि ॥ * ॥
अथ विसर्पस्य चिकित्सा । “विरेकवमनालेपसेचनास्रविमोक्षणैः । उपाचरेद्यथादोषं विसर्पानविदाहिभिः ॥ रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला । घृतं क्षीरयुतो लेपो वातवीसर्पनाशनः ॥” चन्दनमत्र रक्तं ग्राह्यम् । “कसेरुशृङ्गाटकपद्मगुन्द्रैः सशैवलैः सोत्पलकर्द्दमैश्च । वस्त्रान्तरैः पित्तकृते विसर्पे लेपो विधेयः सघृतः सुशीतः ॥ * ॥
त्रिफलापद्मकोशीरसमङ्गाकरवीरकम् । नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ॥ समङ्गा लज्जालुः । “वातपित्तप्रशमनमग्निवीसर्पणे हितम् । वातश्लेष्महरं कर्म्म ग्रन्थिवीसर्पणे हितम् ॥ पित्तश्लेष्मप्रशमनं हितं कर्द्दमसंज्ञके । त्रिदोषजक्रियां कुर्य्यात् विसर्पे त्रिमलापहाम् ॥ * शिरीषयष्टीनतचन्दनैला मांसौहरिद्राद्वयकुष्ठवालैः । लेपो दशाङ्गः सघृतः प्रयोज्यो विसर्पकुष्ठज्वरशोथहारी ॥” नतं तगरम् । चन्दनमत्र रक्तं ग्राह्यम् । दशाङ्गो लेपः ॥ * ॥
“परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः । पद्मकोशीरमधुकं चन्दनैला विसर्पणे ॥ भूनिम्ववासा कटुका पटोल- फलत्रयं चन्दननिम्बसिद्धः । विसर्पदाहज्वरशोथकण्डूं विस्फोटतृष्णावमिहृत् कषायः ॥ कुष्ठानि यानि सर्पिंषि व्रणेषु विविधेषु च । विसर्पे तानि योज्यानि सेकालेपनभोजनैः ॥ * ॥
करञ्जसप्तच्छदलाङ्गलीक- स्नुह्यर्कदुग्धानलभृङ्गराजैः । तैलं निशामूत्रविषैर्विपक्वं विसर्पविस्फोटविचर्च्चिकाघ्नम् ॥ इति करञ्जादितैलम् ॥ * ॥
“कुष्ठामयस्फोटमसूरिकोक्त- चिकित्सयाप्याशु हरेद्बिसर्पान् । सर्व्वान् विकारान् परिशोध्य धीमान् व्रणं क्रमेणोपचरेद्यथोक्तम् ॥” इति विसर्पाधिकारः । * । इति भावप्रकाशः ॥ (वेगः । यथा, उत्तरचरिते । “प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ॥” नाट्यालङ्कारविशेषः । तल्लक्षणादिकं यथा, साहित्यदर्पणे । ६ । ४८५ । “विसर्पो यत्समारब्धं कर्म्मानिष्टफलप्रदम् ॥” यथा वेण्याम् । एकस्य तावत् पाकोऽयमि- त्यादि ॥)



Correction: