वाचस्पत्यम्
विसंवाद || पु० वि + सम + वद—घञ् । १ विप्रलम्भे अमरः । २ वञ्चने अन्यथा स्थितस्य वस्तुनोऽन्यथा कथनादौ च ।
शब्दकल्पद्रुमः
विसंवादः || पुं, (वि + सं + वद + घञ् ।)
विप्र- लम्भः । इत्यमरः ॥ (यथा, महाभारते । १२ । २५८ । ११ । “अद्रोहमविसंवादं प्रवर्त्तन्ते तदाश्रयाः ॥”)