वाचस्पत्यम्
विस्तर || पु० वि + स्तॄ—अप् । १ शब्दसमूहे अमरः । २ वाक्यसङ्घे ३ विस्तारे ४ प्रणये ५ समूहे च । आधारे अप् । ६ पीठे शब्दरत्ना० ।
शब्दकल्पद्रुमः
विस्तरः || पुं, (वि + स्तॄ + “प्रथने वावशब्दे ।” ३ । ३ । ३३ । इति घञः प्रतिषेधे “ऋदोरप् ।” इत्यप् ।)
शब्दस्य विस्तारः । इत्यमरः ॥ (यथा, शिशुपालवधे । २ । २४ । “सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥” वेदाङ्गम् । यथा, भागवते । ३ । ३ । २ । “सान्दीपनेः सकृत्प्रोक्तंब्रह्माधीत्य सविस्तरम् ॥”)
विस्तारः । (यथा, गीतायाम् । १० । १९ । “प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥”)
प्रणयः । इति मेदिनी ॥ पीठः । समूहः । इति शब्दरत्नावली ॥ (त्रि, बहुः । यथा, साहित्य- दर्पणे । ६ । ३१४ । “अपेक्षितं परित्यज्य नीरसं वस्तु विस्तरम् । यदा सन्दर्शयेच्छेशमामुखानन्तरं तदा ॥”)