वाचस्पत्यम्
विस्तार || पु० वि + स्तृ—संज्ञायां कर्त्तरि घञ् । १ विटपे भावे घञ् । २ विस्तीर्णतायाम् समासवाक्यस्थे ३ पदसमूहे च अमरः । ४ स्तम्बे मेदि० ।
शब्दकल्पद्रुमः
विस्तारः || पुं, (वि + स्तॄ + “प्रथने वावशब्दे ।” ३ । ३ । ३३ । इति घञ् ।)
विटपः । विस्ती- र्णता । तत्पर्य्यायः । विग्रहः २ व्यासः ३ । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । ५५८ । “वंशावलम्बनं यद्यो विस्तारो गुणस्य याव- नतिः । तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥”)
स्तम्बः । इति मेदिनी । रे, २१५ ॥