संस्कृत-शब्दकोशः

विहेठन वी

विह्वल

वाचस्पत्यम्

विह्वल ||‍ त्रि० वि + ह्वल—अच् । १ भयादिना व्याकुले अमरः । २ विलीने च हेमच० ।


शब्दकल्पद्रुमः

विह्वलः || त्रि (वि + ह्वल + अच् ।)
भयादिना- भिभूतः । स्वाङ्गधारणाशक्तः । तत्पर्य्यायः । विक्लवः २ । इत्यमरः ॥ (यथा, रघुः । ८ । ३७ । “क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥”)
विलीनम् । इति हेमचन्द्रः ॥



Correction: