संस्कृत-शब्दकोशः

वीरुधा वीरेश

वीरुध्

वाचस्पत्यम्

वीरुध्(धा) ||‍ स्त्री वि + रुध—क्विप् दीर्घः वा टाप् । विस्त- तायां लतायाम् अमरः ।


शब्दकल्पद्रुमः

वीरुत् || [ध्] स्त्री, (विशेषेण रुणद्धि वृक्षानन्यान् । वि + रुध + क्विप् । “अन्येषामपीति ।” दीर्घः । अथवा विरोहतीति वीरुत् । विपूर्ब्बस्य रुहेः क्विपि धकारो विधीयते इति काशिका । ७ । ३ । ५३ ।)
विस्तृता लता । तत्पर्य्यायः । गुल्मिनी २ उलपः ३ । इत्यमरः ॥ वीरुधा ४ । इति शब्द- रत्नावली ॥ प्रताना ५ कक्षः ६ । इति जटा- धरः ॥ (यथा, रघुवंशे । ८ । ३६ । “अभिभूय विभूतिमार्त्तवीं मधुगन्धातिशयेन वीरुधाम् ॥” ओषधिः । यथा, ऋग्वेदे । १ । ६७ । ५ । “वियो वीरुत् सुरोधन्महित्वोत प्रजा उतप्रसू- ष्वन्तः ॥” “वीरुत्सु ओषधीषु ।” इति तद्भाष्ये सायणः ॥ वृक्षमात्रे, पुं । यथा, महाभारते । १ । ४५ । २४ । “यानि पश्यसि वै ब्रह्मन् मूलानीहास्य वीरुधः । एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥” यथा च ऋग्वेदे । ९ । ११३ । २ । “सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिः ॥” “वीरुधां वनष्पतीनामिति ।” इति तद्भाष्ये सायणः ॥ लतानां वीरुधाञ्च कथञ्चिद्भेदमाह । यथा, भागवते । ३ । १० १९ । “वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।” “ये पुष्पं विना फलन्ति ते वनस्पतयः । ओषधयः फलपाकान्ताः । लता आरोहणापेक्षाः । त्वक्- सारा वेण्वादयः । लता एव काठिन्येनारोहणा- नपेक्षा वीरुधः । ये पुष्पैः फलन्ति ते द्रुमाः ।” इति तट्टीकायां श्रीधरस्वामी ॥)



Correction: