वाचस्पत्यम्
वृत्ति || स्त्री० वृत—क्तिन् । १ वर्त्तने २ स्थितौ ३ विवरणे च मेदि० । करणे क्तिन् ४ जीविकायाम् अमरः । ५ कौशि- कीसात्त्वतीभारत्यारभट्याख्ये नाटकरचनामैदे “शृङ्गारे कौशिकी, वीरे सात्त्वत्यारभटी पुनः । रसे रौद्रे च पीभत्से वृत्तिः सर्वत्र भारती । चतस्रो वृत्तयो ह्येताः सर्वनाढ्यस्य मातृकाः” सा० द० । ६ वेदान्तोक्ते अन्तःकरणादेः परिणामभेदे च । अन्तःकरणवृत्तिस्यारूपप्रयोजनादिकं वेदा० प० दर्शितं यथा तडागोदकं छिद्रानिर्गत्य यथा कुल्या- त्मना केदारान् प्रविश्य तद्वदेव चतुष्केणाद्याकारं भवति तथा तैजसमप्यन्तःकरणं चक्षुरादि द्वारा घटादिविषय- देशं गत्वा घटादिविषयाकारेण परिणमते स एव परिणामो वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु अन्मः- करणस्य स वह्न्यादिदेशगमनं वह्यादेश्चक्षुराद्यसन्निक- र्षात्” १प० । इन्द्रियजन्यवृत्तिश्च आवरणभङ्गार्था सम्ब- न्धार्था इति मतद्वैधं यथोक्तं तत्रैव ७ प० । “सा चा- न्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम् तथा हि अविद्योपहितचैतन्यस्य जीवत्वपक्षे थठाढ्यषिष्ठानचैतन्यस्य जीवरूपतया जीवस्य सवेदा घटभानप्रसक्तौ घटाद्यव- च्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापद वाच्यमभ्युपगन्तव्यम् । एव सति न सर्वदा घटादेर्भाम- प्रसङ्गः । अनावृतचैतन्तस्यैव भानप्रयोजकत्वात् तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्या- दिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं तद्भा- सकस्य तदनिवर्त्तकत्वास् नापि वृत्त्युपहितचैतन्थं परो- क्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवत्तिविशे- पस्य तदुपहितचैतसास्य वा आवरणभञ्जकत्वमित्यावरणा मिभवार्धा वृत्तिरित्युच्यते । सम्बन्धार्षा कृत्तिरित्यपर मतम् । तत्राविद्योपाधिकोजीवोऽपरिच्छन्नः स च घटादिप्रदेशे विद्यमानोऽपि घटाद्यपरोक्षवृत्तिविरहदशायां न घटादिमवभासयति घटादिना समं तस्य सम्बन्धा- भावात् तत्तदाकारवृत्तिदशायां तु भासयति तदो सम्य- न्धसत्त्वात” । अतएवोक्तं “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्लुतो घटम् । तत्राज्ञानं धिया नश्येत् आभासात्तु घटः स्फुरेत्” इदञ्च प्रथमताभिप्रायम् अन्तःकरणवृलीनां भेदादिकं पातञ्जलादिदर्शितप्रन्तःकरणशब्दे १९५ पृ० दृश्यम् । “ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” ये० सा० । विप्रस्य जीविक रूपवृत्तिहरणे दोषो यथा “स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स कृतघ्न इति ज्ञेयः फलं तत् शृणु भूमिप! । यावन्तोरेणवः सिक्ता विप्राणां नेत्रविन्दुभिः । तावद्वर्षसहस्रञ्च घृतपाके स तिष्ठति । तप्ताङ्गारश्च तद्- भक्ष्यं पानञ्च तप्तमूत्रकम् । तप्ताङ्गारे च शयनं ता- ड्यते यमकिङ्करैः । तदन्ते च महापापी विष्ठायां जायते कृमिः । षष्टिवर्षसहस्राणि देवमानेन भारते । ततो भूमिविहीनश्च प्रजाहीनश्च मानवः । दरिद्रः कृपणी रोगी शूद्रो निन्द्यस्ततः शुचिः” ब्रह्मवै० प्र० ४९ अ० ।
शब्दकल्पद्रुमः
वृत्तिः || स्त्री (वृत + क्तिन् ।)
जीविका । इत्यमरः ॥ (यथा, मनौ । ४ । २५९ । “एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ॥”)
विवरणम् । (यथा, कातन्त्रे । “सूत्रस्यार्थ- विवरणं वृत्तिः ॥”)
कौशिक्यादिः । प्रवर्त्तनम् । इति मेदिनी ॥ (यथा, शाकुन्तले । ४ । “उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं वाष्पं कुरु स्थिरतया विरतानुबन्धम् ॥”)
विधृतिः । इति धरणिः ॥ * ॥
कौशिक्यादि- वृत्तयो यथा, —
“शृङ्गारे कौशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च वीभत्से वृत्तिः सर्व्वत्र भारती । चतस्रो वृत्तयो ह्येताः सर्व्वनाट्यस्य मातृकाः ॥” इति साहित्यदर्पणे ६ परिच्छेदः ॥ वृत्तिहरणे दोषा यथा, — श्रीनारायण उवाच । “स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स कृतघ्न इति ज्ञेयः फलं तत् शृणु भूमिप ! ॥ यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः । तावद्वर्षसहस्रञ्च शृतपोते स तिष्ठति ॥ तप्ताङ्गारञ्च तद्भक्ष्यं पानञ्च तप्तमूत्रकम् । तप्ताङ्गारे च शयनं ताडितो यमकिङ्करैः ॥ तदन्ते च महापापी विष्ठायां जायते कृमिः । षष्टिवर्षसहस्राणि देवमानेन भारते । ततो भूमिविहीनश्च प्रजाहीनश्च मानवः । दरिद्रः कृपणो रोगी शूद्रो निन्द्यस्ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥ (व्यवहारः । यथा, मनौ । २ । २०५ । “गुरोर्गुरौ सन्निहिते गुरुवद्बृत्तिमाचरेत् ॥” वर्त्ततेऽस्मिन्निति व्युत्पत्त्या । आधेयः । यथा, व्याप्तिपञ्चके । १ । “साध्याभाववदवृत्तित्वम् ।” यथा च भाषापरिच्छेदे । “सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानदनुमितिर्भवेत् ॥” चित्तस्यावस्थाविशेषः । यथा, पातञ्जले । २ । “योगश्चित्तवृत्तिनिरोधः ॥” चित्तवृत्तिप्रकारास्तु तत्रैव द्रष्टव्याः ॥ * ॥
व्यापारः । यथा, सांख्य- तत्त्वकौमुद्याम् । ५ । “अर्थसन्निकृष्टस्य इन्द्रियस्य वृत्तौ सत्यां तमो- ऽभिभवे यः सत्त्वसमुद्रेकः ॥” युक्तार्थः । यथा, कातन्त्रव्याकरणादौ । “कारकप्रतियोगिभ्यां यद्यदन्यदपेक्षते । अपेर्ब्बहुलवाचित्वाद्वृत्तिस्तत्र तु नेष्यते ॥”)