वाचस्पत्यम्
वृन्दारक || पु० वृन्देन कायति कै—क । १ देवे अमरः । स्वार्थे क । २ मुख्ये ३ मनोहरे च त्रि० ४ यूथपतौ पु० व्याडिः ।
शब्दकल्पद्रुमः
वृन्दारकः || त्रि (वृन्दार + स्वार्थे कन् ।)
मनोज्ञः । (यथा, महाभारते । ११ । १९ । ५ । “युवा वृन्दारकः शूरोविकर्णः पुरुषर्षभः ॥”)
श्रेष्ठः । इति मेदिनी ॥ तन्मते पवर्गीयादिः । वृन्दारकौ रूपिमुख्यौ । इत्यमरः ॥
शब्दकल्पद्रुमः
वृन्दारकः || पुं, (वृन्दमस्यास्तीति । वृन्द + “शृङ्ग- वृन्दाभ्यामारकन् वक्तव्यः ।” ५ । २ । १२२ । इत्यस्य वार्त्तिकोक्त्या आरकन् ।)
देवता । इत्यमरः ॥ (यथा, भागवते । ६ । १० । ३० । “अपि वृन्दारका यूयं न जानीथ शरीरि- णाम् ॥”)
यूथपाता । यथा, —
“वृन्दारकः सुरे श्रेष्ठे मनोज्ञे यूथपातरि ॥” इति भरतधृतव्याडिः ॥