वाचस्पत्यम्
वृन्दावन || स्त्री वृन्दायाः तपस्यार्थं तत्क्रीडार्थं वा वनम् शा० त० । मथुरासन्निकृष्टे वैष्णवे १ तीर्थभेदे गोलोकस्थे धामभेदे च “कमालांशा तस्य (केदारस्य) कन्या नाम्ना वृन्दा तप- स्विनीत्युपक्रमे “वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं स्मृतम् । वृन्दयात्र कृता क्रीडा तेन वा मुनिपुङ्गव! । राधाषोडशनाम्नां च वृन्दा नाम श्रुतौ श्रुतम् । तस्याः क्रीडा वनं रम्यं तेन वृन्दावनं स्मृतम्” ब्रह्मवै० जन्म० १७ अ० । “नित्यं वृन्दावनं धाम ब्रह्माण्डोपरि संस्थि- तम् । पूर्णब्रह्मसुखैश्वर्य्यं नित्यमानन्दमव्ययम् । वैकु- ण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि । गोलोकैश्वर्य्यञ्च यत्किञ्चित् गोकुले तत् प्रकीर्त्तितम् । वैकुण्ठादिवैभवं यत् द्वारकायां प्रकाशयेत् । यद्ब्रह्म परमैश्वर्य्यं नित्यं वृन्दावनाश्रयम् । तस्मात् त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता । यत् स्यान्माथुरकं धाम विष्णोरेकान्त वल्लभम् । स्वस्थानमधिकं नाम धेयं माथुरमण्डलम् । निगूढं परमं स्थानं पुर्य्यभ्यन्तरसंस्थितम् । सहस्रपत्र- कमलाकारं माथुरमण्डलम् । विष्णुचक्रं परिभ्राम- द्धाम वैष्णवमद्भुतम् । कर्णिकापत्रविस्तारं रहस्य- क्रममीरितम् । प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् । भद्र १ श्री २ लौह ३ भाण्डीर ४ महा ५ ताल ६ खदीर- काः ७ । बहुलं ८ कुमुदं ९ काम्यं १० मधु ११ वृन्दावनं १२ तथा । द्वादशैता वने संख्याः कालिन्द्याः सप्त पश्चिमे । पूर्वे पञ्च वनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् । महावनं गोकुलाख्य रम्यं मधुवनं तथा । पूर्वे तु पञ्च भद्राद्यास्तालाद्याः सप्त पश्चिमे । अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थ लम् । कदम्बखण्डिकं नन्दवनं नन्दीश्वरं तथा नन्दनानन्दखण्डञ्च पालाशाशोककेतकम् । सुगन्धिमादः कैलममृतं मोजनस्थलम् । सुखप्रसाधनं वत्सहरण शेषशायनम् । श्यामपूश्च दधिग्रामं चक्रभानुपुरं तथा सङ्कितं विपदञ्चैव बालक्रीडञ्च धूषरम् । केमुद्रुमं खरो- वीरमुत्सुकञ्चापि नन्दनम् । इत्थमेव वने संख्यास्त्रिं शच्चोपवने स्मृता । पूर्वोक्तं द्वादशारण्यं प्रधानं वन- मुत्तमम् । तत्रोत्तरे चतुर्थञ्च वनञ्च समुदाहृतम् । नाना विधरसक्रीडानानालीलामयस्थलम् । दलविस्पष्ट विस्ताररहस्यक्रममीरितम् । सहस्रपत्रकमलं गोकु- लाख्यं महत् पदम् । तत्रोपरि स्वर्णपीठे मणिमण्डप मण्डितम् । तत्र तत्र क्रमाद्दिक्षु विदिक्षु दलमीरितम् । यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् । तस्मिन् दने महापीठं निगमागमदुर्गमम् । योगीन्द्रैरपि दुष्- प्रापं सर्वात्मा यत्र गोकुले । द्वितीयं दलमाग्नेयं तद्र- हस्य द्विधा तथा । निकुञ्जककुटोवीरकुटीरौ तद्दले स्थितौ । पूर्वदलं तृतीयं यत् प्रधानं स्थानमुच्यते । गङ्गादिसर्वतीर्थानां स्पर्शाच्छतगुणं भवेत् । चतुर्थदल- मैशान्यां सिद्धपीठेप्सितप्रदम् । कामयन्नूतना गोपी तत्र कृष्णातिं लभेत् । वस्त्रालङ्कारहरणं तद्दले समु- दाहृतम् । उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् । द्वादशादित्यमत्रैव दलञ्च कर्णिकासमम् । वायव्यन्तु दलं षष्ठं तत्र कालीह्रदः स्मृतं । दलोत्तमोत्तमञ्चैव प्रधान- स्थानमुच्यते । सर्वोत्तमदलं श्रेष्ठं पश्चिमे सप्तमं दलम् । यज्ञपत्नोगणानाञ्च तदीप्सितवरप्रदम् । अधासुरस्य निर्वाणं चक्रे त्रिदशदर्शितम् । ब्रह्ममोहनमत्रैव दलं ब्रह्महृदावहम् । नैरृत्यान्तु दलं प्रोक्तमष्टमं व्योमघात- नम् । शङ्खचूडबधस्तत्र नानाकेलिरसस्थलम । श्रुत- मष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् । श्रीमद्वृन्दावनं धन्यं यमुनायाः प्रदक्षिणम् । शिवलिङ्गमधिष्ठाता वृष्टो गापीश्वराभिधः । तद्वाह्ये षोडशदलं श्रिया पूर्णं तदो- रितम् । सर्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद् यथा- क्रमम् । महत् पदं महद्धाम प्रधानं षोडशं दलम् । प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् । तस्मिन् मधुवनं प्राक्तं तत्र प्रादुरभूत् स्वयम् । चतुर्भुजो महा- विष्णुः सर्वकारणकारणम् । तत्राथिष्ठिततद्देवं मुनि- श्रेष्ठ! सनातनम् । दलं द्वितीयमाख्यातं किञ्चिल्लीलार- सस्थलम् । खदिरारण्यमत्रैव दलञ्च समुदाहृतम् । सर्व- श्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम् । तत्र गोव- र्द्धने रम्ये नित्यानन्दरसाश्रये । कर्णिकायां महालीला तल्लीलारससागरे । यत्र कृष्णो नित्यवन्दाकाननस्य पति- र्भवेत् । कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः । दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् । चतुर्थदलमा- ख्यातं महाद्भुतरसस्थलम् । हरिर्यस्य पतिः साक्षा- न्नित्यं गोवर्द्धनं स्वयम् । कदम्बखण्डी तत्रैव पूर्णा- नन्दरसाश्रयः । स्निग्धं हृद्यं प्रियं रम्यं दलञ्च समु- दाहृतम् । नन्दीश्वरदलं रम्यं तत्र नन्दालयः स्मृतः । क र्णकादलमाहात्म्यं पञ्चमं दलमुच्यते । अधिष्ठातात्र गोपाला धेनुपालस्ततः परम् । दलं षष्ठं यदाख्यातं तत्र नन्दवनं स्मृतम् । सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्त्तितम् । दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः । नवमं कुमुदारण्यं दलं रम्यं प्रकीर्त्तितम् । काम्या- रण्यं दलं हृद्यं दशमं सर्वकारणम् । ब्रह्मपसादनं तत्र विष्णुवृन्दं प्रदर्शितम् । कृष्णक्रीडारसस्थानं प्र- धानं दलमुच्यते । दलमेकादशं प्रोक्तं भक्तानुग्रहका- रणम् । निर्वाणं सेतुबन्धस्य नानारसमयस्थलस् । भा- ण्डीरं द्वादशदलं वनं रम्यं मनोहरम् । कृष्णक्रोडा- रसस्तत्र श्रीदामादिभिरावृतः । त्रयेदशदलं श्रेष्ठं तत्र भद्रवनं स्मृतम् । चतृर्दशदलं प्रोक्तं सर्वसिद्धि प्रदं स्थ- लम् । श्रीवनं तत्र रुचिरं सर्वैश्वर्य्यस्य कारणम् । कृष्णलीलामयदलं श्रीकीर्त्तिकान्तिवर्द्धनम् । पञ्चदशं दलं श्रेष्ठं तत्र लौहवनं स्मृतम् । कथितं षोडशदलं मा- हात्म्यं कर्णिकासमम् । महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् । बालक्रीडारसस्तत्र वत्सपालैः समा- वृतः । पूतनादिबधस्तत्र यमलार्जुनभञ्जनम् । अधिष्ठाता तत्र बालगोपालः पञ्चमाव्दिकः । नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः । दलं प्रसिद्धमाख्यातं सर्व- श्रेष्ठदलोत्तमम् । कृष्णक्रीडा च किञ्जल्के विहारदल- मुच्यते । सिद्धिप्रधानं किञ्जल्कं दलञ्च समुदाहृतम्” पद्मपु० पा० ख०
शब्दकल्पद्रुमः
वृन्दावनं || क्ली स्वनामख्याततीर्थम् । तन्नामकारणं यथा, — श्रीनारायण उवाच । “पुरा केदारनृपतिः सप्तद्वीपपतिः स्वयम् । आसीत् सत्ययुगे ब्रह्मन् सत्यधर्म्मरतः सदा ॥ स रेमे सह नारीभिः पुत्त्रपौत्त्रगणैः सह । पुत्त्रानिव प्रजाः सर्व्वाः पालयामास धार्म्मिकः ॥ कृत्वा शतक्रतुं राजा लेभे त्विन्द्रत्वमीप्सितम् । कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम् ॥ नित्यं नैमित्तिकं सर्व्वं श्रीकृष्णप्रीतिपूर्ब्बकम् । केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः ॥ पुत्त्रेषु राज्यं संन्यस्य प्रिया त्रैलोक्यमोहिनी । जैगीषव्योपदेशेन जगाम तपसे वनम् ॥ हरेरैकान्तिको भक्तो ध्यायते सन्ततं हरिम् । शश्वत् सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने ॥ चिरं तप्त्वा नृपश्रेष्ठो गोलोकञ्च जगाम सः । केदारनामतीर्थं तत्तन्नाम्ना च बभूव ह ॥ तत्राद्यापि मृतः प्राणी सद्यो मुक्तो भवेत् ध्रुवम् । कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी ॥ न वव्रे सा वरं कञ्चित् योगशास्त्रविशारदा । दत्तं दुर्व्वाससा तस्यै हरेर्मन्त्रं सुदुर्ल्लभम् ॥ सा विरक्ता गृहं त्यक्त्वा जगाम तपसे वनम् । षष्टिं वर्षसहस्राणि तपस्तेपे सुनिर्ज्जने ॥ आविर्ब्बभूव श्रीकृष्णस्तत्पुरो भक्तवत्सलः । प्रसन्नवदनः श्रीमान् वरं वृण्वित्युवाच सः ॥ दृष्ट्वा सा राधिकाकान्तं शान्तं सुन्दरविग्रहम् । मूर्च्छां संप्राप सा सद्यः कामबाणप्रपीडिता ॥ सा च शीघ्रं वरं वव्रे पतिस्त्वं मे भवेति च । ओमित्युक्त्वा च रहसि चिरं रेमे तया सह ॥ सा जगाम च गोलोकं कृष्णेन सह कौतुकात् । राधासमा सा सौभाग्यात् गोपीश्रेष्ठा बभूव सा ॥ वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं स्मृतम् । वृन्दा यत्र कृता क्रीडा तेन वा मुनिपुङ्गव ॥ * ॥
अथान्यञ्चेतिहासञ्च शृणुष्व वत्स पुण्यदम् । येन वृन्दावनं नाम निबोध कथयामि ते ॥ कुशध्वजस्य कन्ये द्वे धर्म्मशास्त्र विशारदे । तुलसीवेदवत्यौ च विरक्ते भवकर्म्मणि ॥ तपस्तप्त्वा वेदवती प्राप नारायणं परम् । सीता जनककन्या सा सर्व्वत्र परिकीर्त्तिता ॥ तुलसी च तपस्तप्त्वा वाञ्छां कृत्वा हरिं पतिम् । दैवाद्दुर्व्वाससः शापात् प्राप्य शङ्खासुरं पतिम् ॥ पश्चात् संप्राप कमलाकान्तं कान्तं मनोहरम् । तस्याश्च तपसः स्थानं उदितञ्च तपोधन । तेन वृन्दावनं नाम प्रवदन्ति मनीषिणः ॥ * ॥
अथवा ते प्रवक्ष्यामि परं हेत्वन्तरं शृणु । येन वृन्दावनं नाम पुण्यक्षेत्रञ्च भारते ॥ राधाषोडशनाम्नाञ्च वृन्दा नाम श्रुतौ श्रुतम् । तस्याः क्रीडावनं रम्यं तेन वृन्दावनं स्मृतम् ॥ गोलोके प्रीतये तस्याः कृष्णेन निर्म्मितं पुरा । क्रीडार्थं भुवि तन्नाम्ना वनं वृन्दावनं स्मृतम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे वृन्दावन- प्रस्तावः १७ अध्यायः ॥ * ॥
अथ वृन्दावनवर्णनम् । ईश्वर उवाच । “गुह्याद्गुह्यतरं हृद्यं परमानन्दकारणम् । अत्यद्भुतं रहस्यानां रहस्यं परमं परम् ॥ दुर्ल्लभानाञ्च परमं दुर्ल्लभं मोहनं परम् । सर्व्वशक्तिमयं देवि सर्व्वस्थानेषु गोपितम् ॥ सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यन्तवल्लभम् । नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ॥ पूर्णब्रह्मसुखैश्वर्य्यनित्यमानन्दमव्ययम् । वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥ गोलोकैश्वर्य्यं यत्किञ्चित् गोकुले तत्प्रकीर्त्तितम् । वैकुण्ठादिवैभवं यत् द्बारकायां प्रकाशयेत् ॥ यद्ब्रह्मपरमैश्वर्य्यं नित्यं वृन्दावनाश्रयम् । तस्मात् त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता ॥ यत् स्यान्माथुरकं धाम विष्णोरेकान्तवल्लभम् । स्वस्थानमधिकं नामधेयं माथुरमण्डलम् ॥ निगूढं परमं स्थानं पुर्य्यभ्यन्तरसंस्थितम् । सहस्रपत्रकमलाकारं माथुरमण्डलम् ॥ विष्णुचक्रपरिभ्रामद्धाम वैष्णवमद्भुतम् । कर्णिकापत्रविस्तारं रहस्यक्रममीरितम् ॥ प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् । भद्रश्रीलौहभाण्डीरमहातालखदीरकाः ॥ बहुलं कुमुदं काम्यं मधु वृन्दावनं तथा । द्वादशैता वने संख्याः कालिन्द्याः सप्त पश्चिमे ॥ पूर्ब्बे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् । महावनं गोकुलाख्यं रम्यं मधुवनं तथा ॥ पूर्व्वे तु पञ्च भद्राद्यास्तालाद्याः सप्त पश्चिमे । अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥ कदम्बखण्डिकं नन्दवनं नन्दीश्वरं तथा । नन्दनानन्दखण्डञ्च पालाशाशोककेतकम् ॥ सुगन्धिमादनं कैलममृतं भोजनस्थलम् । सुखप्रसाधनं वत्सहरणं शेषशायनम् ॥ श्यामपूश्च दधिग्रामं चक्रभानुपुरं तथा । शङ्कितं विपदञ्चैव बालक्रीडञ्च धूसरम् ॥ केमुद्रुमं खरो वीरमुत्सुकञ्चापि नन्दनम् । इत्थमेव वने संख्यास्त्रिंशच्चोपवनं स्मृतम् ॥ पूर्ब्बोक्तं द्वादशारण्यं प्रधानं वनमुत्तमम् । तत्रोत्तरे चतुर्थञ्च वनञ्च समुदाहृतम् ॥ नानाविधरसक्रीडानानालीलामयस्थलम् । दलविस्पष्टविस्ताररहस्यक्रममीरितम् ॥ सहस्रपत्रकमलं गोकुलाख्य महत् पदम् । कर्णिका तन्महद्धाम गोविन्दस्थानमुत्तमम् ॥ तत्रोपरि स्वर्णपीठे मणिमण्डपगण्डितम् । तच्च तत्र क्रमाद्दिक्षु विदिक्षु दलभीरितम् ॥ यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् । तस्मिन् दले महापीठं निगमागमदुर्गमम् ॥ योगीन्द्रैरपि दुष्प्रापं सर्व्वात्मा यच्च गोकुलम् । द्वितीयं दलमाग्नेयं तद्रहस्यं द्विधा तथा ॥ निकुञ्जककुटीवीरकुटीरौ तद्दले स्थितौ । पूर्ब्बदलं तृतीयं यत् प्रधानं स्थानमुच्यते ॥ गङ्गादिसर्व्वतीर्थानां स्पर्शाच्छतगुणं भवेत् । चतुर्थदलमैशान्यां सिद्धपीठेप्सितप्रदम् ॥ कामयन् नूतना गोपी तत्र कृष्णपतिं लभेत् । वस्त्रालङ्कारहरणं तद्दले समुदाहृतम् ॥ उत्तरे पञ्चमं प्रोक्तं दलं सर्व्वदलोत्तमम् । द्वादशादित्यमत्रैव दलञ्च कर्णिकासमम् ॥ वायव्यन्तु दलं षष्ठं तत्र कालीह्रदः स्मृतः । दलोत्तमोत्तमञ्चैव प्रधानस्थानमुच्यते ॥ सर्व्वोत्तमदलं श्रेष्ठं पश्चिमे सप्तमं दलम् । यज्ञपत्नीगणानाञ्च तदीप्सितवरप्रदम् ॥ अघासुरस्य निर्व्वाणं चक्रे त्रिदशदर्शितम् । ब्रह्ममोहनमत्रैव दलं ब्रह्महृदावहम् ॥ नैरृत्यान्तु दलं प्रोक्तमष्टमं व्योमघातनम् । शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम् ॥ श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् । श्रीमद्वृन्दावनं धन्यं यमुनायाः प्रदक्षिणम् ॥ शिवलिङ्गमधिष्ठाता दृष्टो गोपी श्वराभिधः । तद्बाह्ये षोडशदलं श्रिया पूर्णं तदीरितम् ॥ सर्व्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् । महत् पदं महद्धाम प्रधानं षोडशं दलम् ॥ प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् । तस्मिन् मधुवनं प्रोक्तं तत्र प्रादुरभूत् स्वयम् ॥ चतुर्भुजो महाविष्णुः सर्व्वकारणकारणम् । तत्राधिष्ठिततद्देवं मुनिश्रेष्ठ सनातनम् ॥ दलं द्वितीयमाख्यातं किञ्चिल्लीलारसस्थलम् । खदिरारण्यमत्रैव दलञ्च समुदाहृतम् ॥ सर्व्वश्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम् । तत्र गोवर्द्धने रम्ये नित्यानन्दरसाश्रये ॥ कर्णिकायां महालीला तल्लीला रसगह्वरे । यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत् ॥ कृष्णो गोविन्दतां प्राप्तः किमन्यैर्ब्बहुभाषितैः । दलं तृतीयमाख्यातं सर्व्वश्रेष्ठोत्तमोत्तमम् ॥ चतुर्थदलमाख्यातं महाद्भुतरसस्थलम् । हरिर्यस्य पतिः साक्षान्नित्यं गोवर्द्धनः स्वयम् ॥ कदम्बखण्डी तत्रैव पूर्णानन्दरसाश्रयः । स्निग्धं हृद्यं प्रियं रम्यं दलञ्च समुदाहृतम् ॥ नन्दीश्वरदलं रम्यं तत्र नन्दालयः स्मृतः । कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते ॥ अधिष्ठातात्र गोपालो धेनुपालस्ततः परम् । दलं षष्ठं यद ख्यातं नत्र नन्दवनं स्मृतम् ॥ सप्तमं वकुलारण्यं दलं रम्यं प्रकीर्त्तितम् । दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः ॥ नवमं कुमुदारण्यं दलं रम्यं प्रकीर्त्तितम् ॥ काम्यारण्यं दलं हृद्यं दशमं सर्व्वकारणम् । ब्रह्मप्रसादनं तत्र विष्णुवृन्दं प्रदर्शितम् ॥ कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते । दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् ॥ निर्व्वाणं सेतुबन्धस्य नानारसमयस्थलम् । भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम् ॥ कृष्णक्रीडारसस्तत्र श्रीदामादिभिरावृतः । त्रयोदशदलं श्रेष्ठं तत्र भद्रवनं स्मृतम् ॥ चतुर्द्दशदलं प्रोक्तं सर्व्वसिद्धिप्रदं स्थलम् । श्रीवनं तत्र रुचिरं सर्व्वैश्वर्य्यस्य कारणम् ॥ कृष्णलीलामयदलं श्रीकीर्त्तिकान्तिवर्द्धनम् । पञ्चदशदलं श्रेष्ठं तत्र लौहवनं स्मृतम् ॥ कथितं षोडशदलं माहात्म्यं कर्णिकासमम् । महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् ॥ बालक्रीडारसस्तत्र वत्सपालैः समावृतः । पूतनादिवधस्तत्र यमलार्ज्जुनभञ्जनम् ॥ अधिष्ठाता तत्र बालगोपालः पञ्चमाब्दिकः । नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः ॥ दलं प्रसिद्धमाख्यातं सर्व्वश्रेष्ठदलोत्तमम् । कृष्णक्रीडा च किञ्जल्की विहारदलमुच्यते । सिद्धप्रधानं किञ्जल्कं दलञ्च समुदाहृतम् ॥ * ॥
पार्व्वत्युवाच । वृन्दावनस्य माहात्म्यं रहस्यं परमाद्भुतम् । तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥ ईश्वर उवाच । कथितं ते प्रियतमे गुह्याद्गुह्यतमोत्तमम् ॥ रहस्यानां रहस्यं यत्दुर्ल्लभानाञ्च दुर्ल्लभम् । त्रैलोक्यगोपितं देवि ! देवेश्वरसुपूजितम् ॥ ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितम् । योगीन्द्रादिमुनीन्द्रादिसदातद्ध्यानतत्परम् ॥ अप्सरोभिश्च गन्धर्व्वैर्न्नृत्यगीतनिरन्तरम् । श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम् ॥ भूमिश्चिन्तामणिस्तोयममृतं रसपूरितम् । वृक्षाः सुरद्रुमास्तत्र सुरभिवृन्दसेविताः ॥ स्त्री लक्ष्मीः पुरुषो विष्णुस्तदंशांशसमुद्भवः । तत्र कैशोरवयसं नित्यमानन्दविग्रहम् ॥ गतिर्नाट्यं कथागानं स्मितवक्त्रं निरन्तरम् । शुद्धसत्त्वैः प्रेमपूर्णैर्व्वैष्णवैस्तद्वनाश्रयम् ॥ पूर्णब्रह्मसुखे मग्नं स्फुरत्तन्मूर्त्तितन्मयम् । प्रमत्तकोटिभृङ्गाद्यैः कूजत्कलमनोहरम् ॥ कपोतशुकसंगीतमुन्मत्तालिसहस्रकम् । भुजङ्गशत्रुनृत्याद्यं सकान्ताभोदविभ्रमम् ॥ नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् । सुस्निग्धसौरभाश्रान्तमुग्धीकृतजगत्त्रयम् ॥ मन्दमारुतसंसिक्तवसन्तऋतुसेवितम् । पूर्णेन्दुनित्याभ्युदयं सूर्य्यमन्दांशुसेवितम् । अदुःखसुखविच्छेदं जरामरणवर्ज्जितम् । अक्रोधगतमात्सर्य्यं अभिन्नमनहंकृतम् ॥ पूर्णानन्दामृतरसं पूर्णप्रेमसुखावहम् । गुणातीतं परं धाम पूर्णप्रेमस्वरूपकम् ॥ यत्र वृक्षादिपुलकैः प्रेमानन्दाश्रुवर्षितम् । किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ॥ गोविन्दाङ्ग्रिरजस्पर्शान्नित्यवृन्दावनं भुवि । सहस्रदलपद्मस्य वृन्दारण्यं वराटकम् ॥ यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये । गुह्याद्गुह्यतमं रम्यं मेध्यं वृन्दावनस्थितम् ॥ अक्षरं नित्यमानन्दं गोविन्दस्थानमव्ययम् । गोविन्ददेहतोऽभिन्नं पूर्णब्रह्म सुखाश्रयम् ॥ मुक्तिस्तत्र यतः स्पर्शात्तन्माहात्म्यं किमुच्यते । तस्मात् सर्व्वात्मना देवि ! हृदिस्थं कुरु तद्वनम् ॥ वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् । अन्यारण्येषु स्थानेषु बाल्यपौगण्डयौवनम् ॥ कालिन्दीमकरन्दोऽस्य कर्णिकायाः प्रदक्षिणम् । नानानिर्म्माणगम्भीरं जलसौरभमोहनम् । आनन्दाहततन्मिश्रमकरन्दधनालयम् । पद्मोत्पलाद्यैः कुसुमैर्नानावर्णैः समुज्ज्वलम् ॥ चक्रवाकादिविहगैर्म्मञ्जुनानाकलस्वनैः । शोभमानं जलं रम्यं तरङ्गातिमनोहरम् ॥ तस्योभयतटी रम्या शुद्धकाञ्चननिर्म्मिता । गङ्गाकोटीगुणः प्रोक्तो यत्र स्पर्शवराटकः ॥ कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः । कालिन्दीकर्णिकाकृष्टमभिन्नमेकविग्रहम् ॥” इति पाद्मे पातालखण्डे १ अध्यायः ॥ (इदमेव भगवत्याः पीठस्थानानामन्यतमम् । यथा, देवीभागवते । ७ । ३० । ६९ । “रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥”)