संस्कृत-शब्दकोशः

वेत्तृ वेत्रकीय

वेत्र

वाचस्पत्यम्

वेत्र ||‍ पु० अज—त्रल् वीभावः । (वेत) वेतसवृक्षे राजनि० ।


शब्दकल्पद्रुमः

वेत्रः || पुं, (वी + “गुधृवीपचीति ।” उणा० ४ । १६६ । इति त्रः ।)
स्वनामख्यातवृक्षः । तत्प- र्य्यायः । वेतः २ योगिदण्डः ३ सुदण्डः ४ मृदु- पर्व्वकः ५ ॥ (यथा, शाकुन्तले । ५ । “आचार इत्यधिकृतेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ॥”)
स तु पञ्चविधः । तेषां गुणाः । शीतलत्वम् । कषायत्वम् । भूतपित्तहरत्वञ्च । इति राज- निर्घण्टः ॥ तस्याग्रं वेताग् इति ख्यातम् । तद्गुणाः । दीपनत्वम् । रुच्यत्वम् । तिक्तत्वम् । पित्तकफनाशित्वञ्च । तत्फलगुणाः । वातपित्त- नाशित्वम् । अम्लत्वञ्च । इति राजवल्लभः ॥ असुरविशेषः । तस्य प्रमाणं वेत्रासुरशब्दे द्रष्टव्यम् ॥



Correction: