संस्कृत-शब्दकोशः

वेदार वेदिका

वेदि

वाचस्पत्यम्

वेदि ||‍ न० विद + इन् । १ अम्बष्ठायाम् (आकनादि) २ परिष्कृतायां मूमौ स्त्री अमरः वा ङीप् । “मध्येन सा वेदिविल- ग्नमध्या” कुमारः । ३ पण्डिते पु० ४ अङ्गुलिमुद्रायां स्त्री मेदि० । ५ गृहस्थितपिण्डाकारमृत्तिकास्तूपे च “प्राग्- द्वारवेदिविनिवेशितपूर्णकुम्भः” रघुः । ६ भूमिस्थे देशभेदे यथा अन्तर्वेदि उत्तरवेदिः दक्षिणवेदिरित्यादि । वेदिश्च डमरुकाकारपिण्डिकावती पशुवन्धनार्थं होमी- यद्रव्यासादानार्थं वा कृतसंस्कारा परिष्कृता चतुरस्रा- दिरूपा भूमिः । तुलादानाद्यङ्गमण्डपस्थवेदिलक्षणं हेमा० दा० उक्तं यथा “मध्यगोत्तमयोर्वेदी मण्डपस्य त्रिभागतः । चतुर्थांशोच्छ्रितिस्तस्यास्त्रिसप्तपञ्चतोऽपि वा । नवैकादशहारा वा इष्टकाभिः प्रकल्पयेत्” । वैदिककर्मा- ङ्गवेदिलक्षणादिकं कात्या० श्रौ० २ । ६ । १ सूत्रादौ उक्तं यथा “अपरेणाहवनीयं वेदिं खनति” कात्या० श्रौ० “त्र्य- ङ्गुलखाताम्” सू० “त्र्यङ्गलं ख्यातमस्याः” कर्क० । “व्याम- मात्रां पश्चात्” सू० “अपरस्यां दिशि तिर्य्यक्प्रमाणेन चतुररत्रिमात्रां कर्कः । “त्र्यरत्निं प्राचीम्” सू० “त्र्यरत्निं प्राचीम् पूर्वापरायतां दीर्घाम् । पुरस्तात् (पूर्वपार्श्वे) तिर्य्यक्प्रमाणं यद्यपि नोक्तम् । तथाप्यरत्नि यात्मक- मेव दर्शनात् कर्कः । “अपरिमितां वा” सू० “अस्मिन् सूत्र ग्रन्थे द्वावेवापरिमितशब्दौ श्रुतिवाक्यानुसरणादपरि- माणवाचिनौ अपरिमिता वा अपरिमितेष्टका वेति च । अन्थे तु अपरिमितं प्रमाणाद्भूय इत्युक्तत्वात् पूर्व्वोक्त परिमाणादतिशयेनाधिकपरिमाणवाचकः” कर्क० “प्राक् प्रवणामुदग्वा” सू० “प्रवन्तेऽस्मिनापोऽनेन वेति प्रबणं नीचम् प्रवर्त्तते वा वनमुदकमस्मिन्निति तदेव निम्नम्” कर्क० । “मध्यसंगृहीताम्” सू० “तत्साधनप्रकारश्च परिशिष्टे उक्तः “आनीय रज्जुं पूर्वार्द्धात् पश्चार्द्धं यावदेव तु । द्विगुणीकृत्य तां रज्जुमत्वे तस्यास्तु शङ्गुकौ । भ्रामयत्तेन मानेन तया रज्ज्वाष्टभागया । वा पृथुत्वतुरीयेण भागेना- लिख्यसंग्रहाविति” क्वचित् “वेदिश्रोण्यंसयोर्मध्ये तया रज्ज्वाष्टभागयेति पाठ” कर्क० “अग्निमभितोऽंसौ” सू० “अंसौ आग्नेयैशानकाणा आहवनीयमुभयतो भवतः अंसयोर्मध्ये आहबनीयो भवतीत्यर्थः अतोऽंसावपि वेदे रेवावयवौ श्रोणिवत् खननस्तरणादयश्च वेदिसम्बद्धाः संस्कारास्तयोरपि प्रवर्त्तत्वे । षडरत्निं रज्जुं मित्वा द्वितीयारत्न्यन्ते लक्षणं श्रोणदकुतार्थम् ततोऽरत्नेश्चतुर्थे भागे लक्षणमाकर्षणार्थम तृतीथारत्न्यन्ते प्राच्यन्ताङ्कना- र्थम् ततश्चतुर्थभागोने(ऽरत्नौ) असाङ्कनार्थम् ततः सार्द्धे- ऽरत्नौ पाश इति अयं च पाशोऽविपर्य्यामेन साधनोपायः विपर्यासपक्षे तु षडरत्निं रज्जुमभयतः पाशौ कृत्वा प्रथमं सार्द्धारत्न्यन्ते असाङ्कनार्थम् ततोऽर्धारत्नौ श्रौण्य- ङ्कनार्थम् ततोऽरत्नेश्चतुर्थे भागे आकर्षणाथम् अरत्नित्रये च प्राच्यान्ताङ्कनार्थमिति । अपरिमितपक्षाश्रयणे च प्राचीप्रमाणं पुरस्तात्तिर्य्यक्प्रमाणं च तुल्यम् पश्चात्ति- र्य्यकप्रमाणं प्राचीप्रमाणं तृतीयभागेनाधिकमिति युक्त्या कल्पनीयम् । तत्र च प्राचीप्रमाणां रज्जुंद्विगुणां कृत्वा रज्जोर्मूलात् पुरस्तात्तिर्य्यक्प्रमाणा सर्द्धे मूलरज्जो- श्चान्तिमचतु भागस्यादौ आकर्षणार्थं लक्षणमिति” । अथ खननप्रमाणे पक्षान्तरमाह “आमूलच्छेदनादोषधी- माम्” सू० “प्राक् प्रवणामुदग्व त्यणात् । सूत्रान्म- ण्डूकप्लुतिन्यायेन वाशब्दोऽत्रानुवर्त्तते अध्याह्रियते वा । अस्मिन् पञ्च एव विशेषमाह” कर्क० “ओषधीतां मूला- न्युच्छेत्तवै ब्रूयात्” सू० “इमं प्रैषमध्वर्य्युरग्नीधं प्रति व्रयात् । मूलानि च भूमिमध्ये दूरमपि यावत् प्रस- रन्ति तावत्पर्य्यन्तम्” कर्क० । “आहार्य्यपुरीष राका- मस्य” सू० “प्रागनुमार्जनाद्वेदेः सकाशाद्वेदि । पुरीषमप- श्चार्य्यान्यत् पुरीषमानीय वेदिमध्ये प्रक्षेपणीयम् एतच्च पुरुषार्थम् प्रणयने कांस्यादिवत् अतश्च विकृतौ न भवति । निष्कामेणापि वेदिः पुरीषवत्येव कार्य्या वेदिपुरीषं तत्रेव तिष्ठति न ततो निष्काश्यते वचनाभावात् । खाता वेदिः नाद्भिः श्लक्ष्णोकरणाया किन्तु पांशुलैव कार्य्या” कर्कः । “वेदिं परिसमुह्य वितृतीयेऽग्नीदुत्तरत उत्- करं करोति” सू० “अन्वाहार्य्याधिश्रयणानन्तरं प्रथमं वेदिमानमध्वंर्युः करोति यथोक्तम् “ततोऽग्नीद्दर्भैर्वेदि मध्यपतितं तृणपुरीषादिकमपसार्य्य वेदेरुत्तरतः परिसमूह नापसारितस्य तृणपुरीषादुत्करं राशिं करोति उत्की- र्य्यत इत्युत्करः । वितृतीयं च वेदेः प्रकृतत्वात्तदीयमेव गार्हपत्याहवनीयान्तरालं वितृतीयं च शुल्वकृतोक्तम् गा- र्हपत्याहवनीययोरन्तरं षोढा सप्तधा वागन्तुसमं त्रेधा विभज्यापरवितृतीयलक्षणेन दक्षिणायम्य तस्मिन्नग्निं विपर्य्यस्योत्तरत उत्कर इत्येकः प्रकारः । अपि वान्तर त्रिभागोनया रज्ज्वा पूर्वार्द्धे समचतुरस्रं कृत्वा श्रो- ण्यामग्निविपर्य्यसोत्तरांस उत्कर इति विपर्य्यासश्चैवम् पूर्वतृतीयलक्षणेनोत्तरत आयम्येति प्रथमे प्रकारे गार्हप- त्याहवनीययोरन्तरत्रिभागोनया रज्ज्वापरार्द्धे समचतु- रस्रं कृत्वा तस्य चतुरस्रस्योत्तरांसे उत्कर इति द्वितीय प्रकारः । चात्वालोत्कराबन्तरेण सञ्चरः सन्निहितो हि चात्वालोत्करः पूर्ववितृतीये भवतीति” कर्क० । तत्करण प्रकारस्तत्रत्यपद्धतौ दृश्यः ।


शब्दकल्पद्रुमः

वेदि || क्ली (विद् + इन् ।)
अम्बष्ठा । इति शब्द- चन्द्रिका ॥


शब्दकल्पद्रुमः

वेदिः || पुं, (वेत्तीति । विद् + इन् ।)
पण्डितः । इति मेदिनी ॥


शब्दकल्पद्रुमः

वेदिः || स्त्री (विद्यते पुण्यमस्यामिति । विद् + “हृपिषिरुहिवृतिविदीति ।” उणा० ४ । ११८ । इति इन् ।)
परिष्कृता भूमिः । इत्यमरः ॥ परिष्कृता यज्ञार्थं पशुबन्धनाय यज्ञपात्रासाद- नाय चातिसंस्कारा भूमिर्वेदिरुच्यते । सा च डमरुकाद्याकारा पिण्डिका । वेदयति निवा- रयति द्रव्यजातं वेदिः । विद ङ क ञ चेतना- ख्याने वासवादे नाम्नीति इः । वेदिः स्त्री वेदी च । इति भरतः ॥ (यथा, रघुः । ११ । २५ । “वीक्ष्य वेदिमथ रक्तबिन्दुभिः- र्बन्धुजीवपृथुभिः प्रदूषिताम् ॥”)
अङ्गुलिमुद्रा । इति मेदिनी ॥ (गृहोपकरण- विशेषः । यथा, भागवते । १० । ४१ । २१ । “वैदूर्य्यवज्रामलनीलविद्रुमै- र्मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥”)



Correction: