संस्कृत-शब्दकोशः

वेधिन् वेन

वेध्य

शब्दकल्पद्रुमः

वेध्यं || क्ली (विध + ण्यत् ।)
लक्ष्यम् । इति जटा- धरः ॥ (यथा, मार्कण्डेये । ४२ । ७ । “प्राणो धनुः शरो ह्यात्मा ब्रह्म वेध्यमनुत्तमम् । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥”)
वेधनीये, त्रि । यथा, —
“षट्कर्णोत्पत्तिमाशङ्क्य भानोः शुद्ध्या समेऽपि च । कर्णौ वेध्यौ न दाषः स्यादन्यथा मरणं भवेत् ॥” इति मलमासतत्त्वम् ॥



Correction: