संस्कृत-शब्दकोशः

वेह्ल वैकक्ष

वै

वाचस्पत्यम्

वै ||‍ अव्य० वा—डै । १ पादपूरणे २ अनुनये ३ सम्बोधने अमरः ।


वाचस्पत्यम्

वै ||‍ शोषे भ्वा० पर० सक० सेट् अनिट् । वायति अवासीत् । ओदित् निष्ठातस्य नः । वानः निर्वाणः ।


शब्दकल्पद्रुमः

वै || ओ शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-अनिट् ।)
वकारादिः । वायति । ओ, वानः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वै || व्य, पादपूरणम् । यथा । तु हि च स्म ह वै पादपूरणे । इत्यमरः ॥ (यथा, भागवते । ४ । १ । २८ । “सत्सङ्कल्पस्य ते ब्रह्मन् ! यद्वै ध्यायति ते वयम् ॥”)
सम्बोधनम् । अनुनयः । इति मेदिनी ॥ (निश्चयः । यथा, मनुः । १ । १०० । “सर्व्वं स्वं ब्राह्मणस्येदं यत्किञ्चित् जगतीगतम् । श्रैष्ठ्येनाभिजनेनेदं सर्व्वं वै ब्राह्मणो- ऽर्हति ॥”)



Correction: