संस्कृत-शब्दकोशः

वेह् वैकक्ष

वै

वै (अव्यय)


निष्पत्ति− वा (गतिगन्धनयोः) - "डैः" (उ० बाहु०)
प्रयोग− "सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम्"
उल्लेख− भाग० ४-१-३०
विस्तार− "तु हि च स्म ह वै पादपूरणे" - अम०

अर्थ−
निधो, अस्वीकारोक्ति र (धेरैजसो) वाक्य पूर्ति गर्न प्रयोग गरिने अव्यय, तर कहिलेकाही सम्बोधन र अनुनय प्रकट गर्दा पनि प्रयोग हुन्छ ।


ओवै शोषणे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वायति

अर्थ−
१. शुष्क हुनु, सुक्नु ।

कृदन्तरूपमाला

  • 1“ओ वै शोषणे” 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।’ 3 इति देवः।
  • 4 वायकः-यिका, 5 वापकः-यिका, विवासकः-सिका, वावायकः-यिका;
  • वाता-त्री, वापयिता-त्री, विवासिता-त्री, वावायिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि विशेषरूपाणि विना भौवादिकपायतिवत् 6 ज्ञेयानि।
  • 7 वानम्, 8 इति उण्प्रत्यये रूपमेवम्।
  • वाति वायति वा द्रव्याणि इति वायुः।
  • “भाष्यकारमते अजेरपि धातोः ‘यजिमनि--’ 9 इत्यादिना बहुलग्रहणाद् युचि ‘वा यौ’ 10 इत्यनेन वादेशे ‘वायुः’ इति पदं सिद्ध्यति” इति प्रकृतसूत्रे 11 टिप्पण्यामुक्तम्।
  • तथा च भाष्ये ‘न तर्हीदानीमिदं ‘वा यौ’ 12 इति वक्तव्यम्।
  • वक्तव्यं च।
  • किं प्रयोजनम्? नेयं विभाषा।
  • किं तर्हि? आदेशोऽयं विधीयते।
  • ‘वा’ इत्ययमादेशो भवत्यजेर्यौ परतः--वायुरिति” इत्येवं दृश्यते। वायुः इमे रूपे विशेषेण भवतः।

प्रासङ्गिक्यः

  • (१६५१)
  • (१-भ्वादिः-९२१। सक। अनि। पर।)
  • (श्लो। १०)
  • [पृष्ठम्१२६८+ ३१]
  • १। णिजन्ते सर्वत्र आदन्तलक्षणः पुगागम इति विशेषः।
  • (१०६२)
  • २। ‘ओदितश्च’ (८-२-४५) इति निष्ठातकारस्य नत्वे रूपमेवम्।
  • ३। ‘कृवापा--’ [द। उ। १-८६]
  • (द। उ। १-१३४)
  • (२-४-५७)
  • (द। उ। १-८६)
  • (२-४-७५)



Correction: