संस्कृत-शब्दकोशः

वैदग्ध्य वैदर्भी

वैदर्भ

वाचस्पत्यम्

वैदर्भ ||‍ पु० विदर्भाणां जनपदानां राजा अण् । १ विदर्भदेशा- धिपे २ वाक्यस्य कौटिल्ये न० “माधुर्य्यव्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृत्तिरल्पवृत्तिर्वा वैदर्मी रीतिरुच्यते” इत्युक्ते ३ काव्यचरनाभेदे स्त्री सा० द० ङीप् । विदर्भे भवा अण् । ४ नलराजपत्न्यां दमयन्त्याम् स्त्री ङीप् । ५ अगस्त्यपत्न्यां ६ श्रीकृष्णमहिषीभेदे च स्त्री हरिव० ।


शब्दकल्पद्रुमः

वैदर्भं || क्ली वाक्यवक्रत्वम् । इति मेदिनी ॥ विदर्भ- सम्बन्धिनि, त्रि ॥


शब्दकल्पद्रुमः

वैदर्भः || पुं, (विदर्भो निवासोऽस्येति । विदर्भ + अण् ।)
विदर्भदेशीयराजः । (यथा, रघुः । ५ । ६२ । “मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥”)
दमयन्तीपिता भीमसेनः । रुक्मिणीपिता भीष्म- कश्च । वाक्यवक्रिमा । इति धरणिः ॥



Correction: