शब्दकल्पद्रुमः
वैदर्भी || स्त्री वाक्यरीतिभेदः । इति मेदिनी ॥ यथा, रीतिमाह । “पदसंघटना रीतिरङ्गसंस्था विशेषवत् । उपकर्त्ती रसादीनां — ॥” रसादीनामर्थात् शब्दार्थशरीरस्य काव्यस्यात्म- भूतानाम् । “—सा पुनः स्याच्चतुर्व्विधा । वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ॥” सा रीतिः । तत्र । “माधुर्य्यव्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥” यथा । अनङ्गमङ्गलभुव इत्यादि । रुद्रटस्त्वाह । “असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भी । वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुवि- धेया ॥ अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः । “ओजः प्रकाशकैर्व्वर्णैर्ब्बन्ध आडम्बरः पुनः । समासबहुला गौडी — ॥” यथा । चञ्चद्भुजेत्यादि । पुरुषोत्तमस्त्वाह । बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया । रीतिरनुप्रासमहिमपरतन्त्रा स्तोभवाक्या च ॥” “—वर्णैः शेषैः पुनर्द्वयोः । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥” द्बयोर्वैदर्भीगौड्योः । यथा, —
“मधुरया मधुबोधितमाधवी- मधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मद- ध्वनिभृता निभृताक्षरमुज्जगे ॥” * ॥
भोजस्त्वाह । “समस्तपञ्चषपदामोजःकान्तिसमन्विताम् । मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ॥” “लाटी तु रीतिर्व्वैदर्भी पाञ्चाल्योरन्तरा स्थिता ॥” यथा, —
“अयमुदयति मुद्राभञ्जनः पद्मिनीना- मुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरकोकद्बन्द्बन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥” कश्चिदाह । “मृदुपदसमाससुभगा युक्तैर्बर्णैर्न चातिभूयिष्ठा । उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी ॥” अन्ये त्वाहुः । “गौडी डम्बरबन्धा स्यात् वैदर्भी ललिता क्रमात् । पाञ्चाली मिश्रभावेन लाटी तु मृदुभिः पदैः ॥” क्वचित्तु वक्त्राद्यौचित्यादन्यथा वचनादयः । वक्त्रादीत्यादिशब्दाद्वाच्यप्रबन्धौ वचनादीत्यादि- शब्दाद्वृत्तिवर्णौ । तत्र वक्त्रौचित्याद्यथा । मन्थायस्तार्णवाम्भ इत्यादि । अत्र वाच्यस्य क्रोधाद्यव्यञ्जकत्वेऽपि भोमसेनवक्तृत्वेनोद्धता वच- नादयः । वाच्यौचित्याद्यथोदाहृते । मूर्द्ध- व्याधूयमानेत्यादौ ॥ * ॥
प्रबन्धौचित्याद्यथा । नाटकादौ रौद्रेऽप्यभिनयप्रतिकूलत्वेन न दीर्घ- समासादयः । एवमाख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्त- मुद्धताः । एवमन्यदपि ज्ञेयम् । इति साहित्य- दर्पणे रीतिविवेको नाम ९ परिच्छेदः ॥ * ॥
अगस्त्यपत्नी । इति शब्दरत्नावली ॥ दमयन्ती । यथा, —
“वैदर्भी विपुलानुरागकलना सौभाग्यमत्रा- खिल- क्षौणीचक्रशतक्रतौ निजगदे तद्वृत्तवृत्तक्रमैः । किञ्चास्माकनरेन्द्रभूसुभगता संभूतये लग्नकं देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्व्वचः ॥ इति उत्तरनैषधे १५ सर्गः ॥ रुक्मिणी । यथा, —
“वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः । प्रगृह्य पाणिना पाणिं प्रहसन् द्विजमब्रवीत् ॥” इति श्रीभागवते १० स्कन्धे ५३ अध्यायः ॥