संस्कृत-शब्दकोशः

वैदर्भी वैदिक

वैदल

वाचस्पत्यम्

वैदल ||‍ न० विदलस्य विकारः अण् । १ भिक्षुकस्य भिक्षापात्र भेदे अमरः । २ पिष्टकभेदे पु० शब्दच० ।


शब्दकल्पद्रुमः

वैदलं || क्ली भिक्षुकस्य मृण्मयादिपात्रम् । यथा, “पात्रन्तु दारवालायुमृण्मयान्यपि वैदलम् ॥” इति जटाधरः ॥


शब्दकल्पद्रुमः

वैदलः || पुं, (विदलो दालिस्तस्मात् जातः । विदल + अण् ।)
पिष्टकः । यथा, —
“पूपोऽपूपः पिष्टकः स्याद्वैदलो विदलोऽपि च ।” इति शब्दचन्द्रिका ॥ विदलो दालिस्तन्निर्म्मितपिष्टको वैदलः । तद्- गुणाः । “वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः ॥” इति राजवल्लभः ॥



Correction: