वाचस्पत्यम्
वैराग्य || न० विरागस्य भावः ष्यञ । विषयवासनाराहित्ये ऐहिकामुष्मिकविषयरागराहित्ये च । वैराग्यस्य मोक्षहेतुत्वादि विवेकचूडामणौ दर्शितं यथा “मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यव- स्तुषुं ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ता- खिलकर्मणां भृशम् । ततः श्रुतिस्तन्मननं सतत्त्वध्यानं चिरं नित्यनिरन्तरं मुनेः । ततो विकल्पं परमेत्य विद्वानिहैव निर्वाणमुखं समृच्छति । यद्बाद्धव्यं तवे- दाणिमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वा- त्मन्यवधारय । मज्जास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धा- तुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपा- ङ्गैरुपयुक्तमेतत् । अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्य्यते बुधेः । नभोनभस्वद्दहनाम्बुमूमयः सू- क्ष्माणि भूताति भवन्ति तानि । परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः । मात्रास्तदीया विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः । य एषु मूढा विषयेषु बद्ध्वा रागोरुपाशेन सुदुर्दमेन । आयान्ति निर्य्यान्त्यध ऊर्द्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः । शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्व गुणेन बद्धाः । कुरङ्गमातङ्गपतङ्गमीनभृङ्गा, नरः पञ्च- भिरञ्चितः किम्? । दोषेण तीव्रा विषयः कृष्णसर्प- विषादपि । विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्य- यम् । विषयाशा महापाशात् यो विमुक्तः सुदुस्त्यजात् । स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि । आपात- वैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् । आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् । विषयाख्यग्रहो येन सुविरक्त्यसिना हतः । स गच्छति भवाम्भाधेः पारं प्रत्यूहवर्जितः । विषम- विषयमार्गैर्गच्छतो नष्टबुद्धेः प्रतिपदमभियातो मृत्यु रप्येष सिद्धिः । हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि । मो- क्षस्य काङ्क्षा यदि वै तवास्ति त्यजातिदूराद्विषयान् विषं यथा । पीयूषवत्तोषदयाक्षमार्जवप्रशान्तिदान्तीर्भज नित्यमादरात्” ।
शब्दकल्पद्रुमः
वैराग्यं || क्ली (विरागस्य भावः । विराग + ष्यञ् ।)
विषयतुच्छधीः । यथा, —
“ज्ञानवैराग्ययोर्भक्तिप्रवेशायोपयोगिता । ईषत् प्रथममेवेति नाङ्गत्वमुचितं तयोः ॥ यदुभे चित्तकाठिन्यहेतू प्रायः सतां मते । सुकुमारस्वभावेयं भक्तिस्तद्धेतुरीरिता ॥” यथा एकादशस्कन्धे । “तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥” इति ॥ किन्तु ज्ञानविरक्त्यादिसाध्यं भक्त्यैव सिद्ध्यति । यथा तत्रैव । “यत् कर्म्मभिर्यत्तपसा ज्ञानवैराम्यतश्च यत् । योगेन दानधर्म्मेण श्रेयोभिरितरैरपि ॥ सर्व्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ रुचिमुद्वहतस्तत्र जनस्य भजने हरेः । विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते ॥ अनासक्तस्य विषयान् यथार्हमुपयुञ्जतः । निर्व्वन्धः कृष्णसम्बन्धे युक्तं वैराग्यमुच्यते ॥ प्रापञ्चिकतया बुद्ध्या हरिसम्बन्धिवस्तुनः ॥ मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बभागे साधन- लहरी ॥