संस्कृत-शब्दकोशः

व्यक्ति व्यङ्ग

व्यग्र

वाचस्पत्यम्

व्यग्र ||‍ त्रि० विगतमग्रं यस्य । १ व्याकुले २ व्यासक्ते च अमरः । विशिष्टमग्रं यस्य । ३ विष्णौ पु० विष्णुस० ।


शब्दकल्पद्रुमः

व्यग्रः || त्रि (विरुद्धं अगतीति । अग + ऋज्रे- न्द्रेति साधुः ।)
व्यासक्तः । (यथा, महा- निर्व्वाणतन्त्रे । ३ । १२४ । “लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः ॥”)
आकुलः । इत्यमरः ॥ (यथा, कुमारे । ७ । २ । “वैवाहिकैः कौतुकसंविधानै- र्गृहे गृहे व्यग्रपुरन्ध्रिवर्गम् ॥” ससम्भ्रमः । इति श्रीधरस्वामी ॥ यथा, भाग- वते । ३ । १९ । ५ । “तं व्यग्रचक्रं दितिजाधमेन स्वपार्षदमुख्येन विसर्ज्जमानम् ॥”)
पुं, विष्णुः । यथा, —
“प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ।” इति तस्य सहस्रनामस्तोत्रम् ॥



Correction: